SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रम् ॥] [२४३ हा किमेतदिति भ्रान्तौ, धावन्तौ तावतिस्ततः । मन्दं मन्दं मुनि यान्तं, वृद्धमेकमपश्यताम् ॥१४०॥* अथोपसृत्य सहसा, हरिषेणमुनिर्मुनिम् । निपत्य पादयोरेव, प्राञ्जलिस्तमवोचत ॥१४१॥ मुने ! प्रसादमाधाय, ममोपरि निवेदय । दृश्यते मुनिभिः सर्वैः, शून्यः किमयमाश्रमः ॥१४२॥** अथोवाच मुनिर्भद्र ! युवयोराश्रमस्थयोः । गृहस्थयोरिवालोक्य कर्म कर्मनिबन्धनम् ॥१४३॥ विश्वभूतिमुनिर्भूत-रिव भूतपतिः पुरा । तपस्विभिः समं सर्वैरपि भेजे वनान्तरम् ॥१४४॥ युग्मम् ॥ इत्युदीर्य मुनिः सोऽपि जगाम नृपनन्दन ! । हरिषेणस्तु दयिता-युतः स्वोटजमागमत् ॥१४५।। तौ दम्पती निजं कर्म निन्दन्तावतिदुःखितौ । अत्यवाहयतां मासांश्चतुरो वत्सरोपमान् ॥१४६।। साऽसूत नवमे मासि पूर्णे प्रीतिमती सुताम् । प्रतिपत्तिथिसन्ध्येव चन्द्रलेखां महस्विनीम् ॥१४७।। ऋषीणामाश्रमे जाता सुतेयं कारणादतः । पितृभ्यामृषिदत्तेति नाम तस्या विनिर्ममे ॥१४८॥ ततः प्रसवरोगेण दैवयोगेन पञ्चताम् । तस्या जगाम जननी 'हीदृशी भवितव्यता' ॥१४९।। कृतौर्ध्वदेहिकः पत्न्याः साश्रुदृक्पङ्कजः पिता । लालयित्वा सुतामष्टवार्षिकामकरोत् क्रमात् ॥१५०।। * विवेकमञ्जर्यां १४०-१४१-१४२ त्रयश्श्लोका न सन्ति, तत्र गच्छन्नेको......श्लोकः १४० क्रमाङ्केनास्ति तदनन्तरं अथोवाच......श्लोकः १४१ क्रमाङ्केनास्ति अत्र अथोवाच....श्लोकस्य १४३ क्रमाङ्कोऽस्ति । सम्पा. * * गच्छन्नेको मुनिस्तत्र दृष्टः पष्टो निवेदय । दृश्यते मुनिभिः सर्वैः शून्यः किमयमाश्रमः ? ॥१४०॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy