________________
२४२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ भुक्त्वा भोगानयमथो तया सह नवोढया । कियत्यपि गते काले सुते बालेतरे निजे ॥१२८॥ विनिवेशितसाम्राज्य-भारो भेजे तपस्विताम् । भर्तृमार्गमलचक्रे सापि प्रीतिमती सती ॥१२९॥ युग्मम् ॥ अथ तौ दम्पती वीक्ष्यमाणावश्रुमुखैर्जनैः । निरीय नगरीतोऽमुमीयतुस्तापसाश्रमम् ॥१३०॥ विश्वभूतेः कुलपतेः पादमूले स्थितौ तपः । चक्रतुर्जम्पती राधावेधसब्रह्मचारिणौ ॥१३१॥ अथाभूत् पञ्चमे मासि प्रकटो गर्भविभ्रमः । प्रीतिमत्यास्तपस्यन्त्या लज्जाकारी तपस्विषु ॥१३२॥ गुर्विणीयं कथमिति ध्यात्वा रहसि तत्पतिः । तामिदं लज्जितोऽवादीद् गर्भोऽस्ति तव किं प्रिये ! ? ॥१३३।। साप्युवाच त्रपाभारन्यञ्चदाननपङ्कजा । अस्ति किञ्चिदहं नार्यपुत्र ! ज्ञातवती तदा ॥१३४॥ तस्मिन्नवसरे भानुमति प्रशममीयुषि । सूचीभेद्यस्तमःपूर: पूरयामास रोदसीम् ॥१३५।। अभेदयत् तमः सान्द्रमपि चन्द्रः समुद्गतः । जलकान्तो मणिरिव प्रज्वलंस्तेजसा जलम् ॥१३६।। भविता हन्त ! धिक्कारस्तापसेष्वावयोरतः । प्रातरन्यत्र यास्याव इत्यालोचपरायणौ ॥१३७।। निषण्णावेव तौ वामहस्तन्यस्तमुखाम्बुजौ । निन्यतुस्तां निशां चिन्ताचान्तस्वान्तावुभावपि ॥१३८।। युग्मम् ॥ विभातायां विभावर्यामुदिते च विभापतौ । तौ वत्स ! तापसैः शून्यं ददृशाते तपोवनं ॥१३९॥
१. पश्यतः स्म तमाश्रमम् वि० ।
D:\amarata.pm5|3rd proof