________________
[२४१
ऋषिदत्ताचरित्रम् ॥]
भविष्यत्यागतं सैन्यमेव मेऽनुपदाध्वना । विचिन्त्येति नृपो विश्वभूतिपादानदोऽवदत् ॥११५।। इदं समागतं सैन्यमाश्रमाद् बहिरस्ति मे । दत्त्वात्मदर्शनं सुस्थीकरोमि तदहं प्रभो ! ॥११६।। इत्यापृष्टे विसृष्टोऽथ मुनिना सैन्यमभ्यगात् । राजा सैन्यमपि प्राप प्रमोदं स्वामिदर्शनात् ॥११७|| कारयित्वा ततस्तस्मिन् सैन्यावासान वनान्तरे । मुनिमाराधयन्नेकमस्थाद् मासमिलापतिः ॥११८।। कुमार ! सुन्दराकारमिदं नाभेयमन्दिरम् । कारितं तेन कल्याणरत्नरोहणरोहणः ॥११९।। अथास्मै गच्छते भूमीभुजे निजपुरीं प्रति । अदाद् मुनिपतिर्मन्त्रमेकमेष विषापहम् ॥१२०।। गत्वात्मनः पुरी पौर-बद्धवन्दनमालिकम् ।
अपालयत् परानन्दमयं राज्यमयं ततः ॥१२१॥ $अन्यदाऽमुष्य नृपतेः सभासीनस्य कैश्चन ।
राजदौवारिकैरेत्य विज्ञप्तमिदमुच्चकैः ॥१२२॥ अस्ति स्वस्तिमती देव ! नगरी मङ्गलावती । तां च पालयति क्षोणीदयितः प्रियदर्शनः ॥१२३॥ तस्य विद्युत्प्रभाकुक्षिसरसीकलहंसिका । अस्ति प्रीतिमती नाम दुहिता सहिता गुणैः ॥१२४॥ दष्टा दुष्टाहिना साऽद्य निवेदितुमिति प्रभुः । अत्रास्मान् प्रैषयद् देव एव जानात्यतः परम् ॥१२५।। राजा तेषां वचः श्रुत्वा वेगिभिः करभोत्तमैः । तत्र गत्वा नृपसुतां निर्विषां तामसूत्रयत् ॥१२६।। पित्रा दत्तां स धरणीधरस्तां परिणीय च । पुनरागाद् निजपुरी पौरोत्तम्भिततोरणाम् ॥१२७।।
D:\amarata.pm5|3rd proof