SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४०] [ऋषिदत्ताचरित्रसंग्रहः ॥ पुर:सरसरोनीरप्रक्षालितमुखक्रमः । क्रममाणः क्रमादेनमाश्रमं प्राविशन्नृपः ॥१०४।। आतिथ्याय शुकप्रेर्यमाणमाणवकव्रजम् । रुरुवतिरोमन्थफेनदन्तुरितोटजम् ॥१०५।। ध्यानलीनमुनिकोड-सुखासीनमृगार्भकम् । वृक्षशाखाशतालम्बि तापसोपधिमण्डलम् ॥१०६।। तत्र कच्छमहाकच्छवंशवारिधिकौस्तुभम् । नृपः कुलपतिं विश्वभूतिनामानमैक्षत ॥१०७।। त्रिभिर्विशेषकम् ॥ उपसृत्य तमुर्वीशस्ततो विनयवामनः । अवन्दत युतं शिष्यैस्तरणिं किरणैरिव ॥१०८॥ लक्षणैरेभिरवनीपतिर्भवति नापरः । विचिन्त्येति मुनिस्तस्मै ददावित्याशिषं तदा ॥१०९।। $*राजन् ! वृषभध्वजविभोर्वदनं मुदेऽस्तु , श्रीशारदासदनमक्षिगवाक्षमुखम् । स्कन्धाद्रिमूर्द्धनि, चलश्रुतिर्दोलयोर्यत् , पाश्वद्वयोरुपवनीयति कुन्तलाली ॥११०॥ [वसन्ततिलका] मुनिरित्याशिषं दत्त्वा सोऽपृच्छदिति भूपतिम् । कुतो यूयमिहायाताः कथमेकाकिनस्तथा ? ॥१११॥ पृष्टोऽथ सादरमिदं मुनिना विश्वभूतिना । सर्वं निवेदयामास प्राञ्जलिः पृथिवीपतिः ॥११२।। इति कुर्वन् मुनिपदोपास्तिमस्ति महीपतिः । यावत् तावद् बभूवोच्चैः कानने तुमुलो महान् ॥११३।। किमेतदिति साकूतमुच्छ्रस्याश्रमवासिनः । ऊचुरुत्कणितास्तूर्णं परस्परमुखेक्षिणः ॥११४॥ १. कर' P. | २. साधिप वि०। * राजन् ! वृषध्वजविभुस्तव मङ्गलानि पुष्णातु सैष भुवनत्रयपूर्णकुम्भः । यस्योपकर्णमधिरोपितचूतपर्णलीलामुपैति चिकुरालिरिहालिनीला ॥११०।। वि०म० । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy