________________
ऋषिदत्ताचरित्रम् ॥]
ततोऽसौ विस्मयानन्दामोदमेदुरमानसः । पप्रच्छेति मुनिश्रेष्ठं प्राञ्जलं रचिताञ्जलिः ॥९१॥ मुने ! केनेदमसमं कारितं जिनमन्दिरम् । अटव्यामपि, के यूयं केयं कन्या च कथ्यताम् ? ॥९२॥ अथोवाच मुनिर्वत्स ! महतीयं कथास्ति नः । देवपूजां पुरः कुर्मः क्षणं तावत् प्रतीक्ष्यताम् ॥९३॥ ओमित्युक्तवति क्षोणी-पालपुत्रे पवित्रधीः । प्रविश्यान्तस्तया सार्धं देवपूजां मुनिर्व्यधात् ॥९४॥ सा कुमारं कुमारस्तां मुहुर्वलितकन्धरम् । ईक्षाम्बभूव धवलैश्चपलैर्लोचनाञ्चलैः ॥९५॥ ततो निर्मिततीर्थेश-सपर्याविधिरम्बुजैः । आगत्य मण्डपे भूपनन्दनं मुनिरब्रवीत् ॥९६॥ कुमाराऽऽगम्यतां चैत्यादुत्तरेण ममोटजम् । अभ्यागतस्य भवतो यतः पूजाऽवशिष्यते ॥ ९७|| गत्वोटजं नृपसुतस्ततस्तदुपरोधतः । मुनेः प्रत्यग्रहीदर्घमासीनो दत्तविष्टरे ॥९८॥ मुनिरूचे ततो वत्स ! श्रूयतां महती कथा | चैत्यस्य मम चामुष्या कन्याया यदि कौतुकम् ॥९९॥
$$ आस्तेऽमरावतीवेह नगरी मन्त्रितावती ।
शशास नृपतिर्नाम्ना हरिषेणः सुखेन ताम् ॥१००॥ तस्याऽभूद् दयिता मूर्त्या नाम्ना च प्रियदर्शना । तत्कुक्षिजन्मा पुत्रश्चाजितिसेनाभिधोऽभवत् ॥१०१॥ तमन्यदाऽन्यथाशिक्षः कश्चिदश्वो नरेश्वरम् । वाह्यालीतोऽपहृत्येहानीतवान् काननावनौ ॥ १०२ ॥
वटप्रालम्बमालम्ब्य गच्छतोऽपि ततोऽर्वतः । अवातरन्नराधीश - स कीनाशकरादिव ॥ १०३॥
D:\amarata.pm5\3rd proof
[ २३९
5
10
15
20
25