________________
२३८]
[ऋषिदत्ताचरित्रसंग्रहः ॥ दृष्टोऽसि वन्दितोऽसि त्वं पूजितोऽसि स्तुतोऽसि यत् । वदन्निति स तीर्थेशं प्रणनाम मुहुर्मुहुः ॥७॥ तस्मिन्नवसरे प्रांशुर्मुनिरेकः समाययौ । जराभिदेलिमवपुः प्रलम्बितजटाभरः ॥७९।। तया नायिकया प्रौढोदूढपुष्पकरण्डकः । कुमारदर्शनोत्पन्नकौतुकोत्तानलोचनः ।८०॥ युग्मम् ॥ मुनेः स्फारलताकारजटाभारतिरोहिता । हृतचेताः कुमारस्य ज्ञातमन्तुरिवात्मनः ॥८१।। सापि बाला विशालाङ्गविभादत्तमुदं दृशोः । महीपतिसुतं निध्यायन्ती दध्याविदं हृदि ॥८२।। किमिन्द्रः किमु वा चन्द्रः किमु वाऽसौ दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः ? ||८३।। अथवा चारिमा तस्येदृशी क्वास्ति बिडौजसः । यो वपुर्वहते नेत्रैः पिटकैरिव दन्तुरम् ? ॥८४|| कलङ्की रजनीजानिस्तापनस्तपनः पुनः । अनङ्गस्तु मनोजन्मा तत् कोऽयं सुभगाग्रणी: ? ॥८५॥ अथोत्थितः कुमारोऽपि नमस्कृतजिनेश्वरः । तं मनिं सहसा वीक्ष्य नमश्चक्रेऽतिविस्मितः ॥८६।। आशास्य तं मुनिः प्राह वत्स ! त्वद्विरहाकुलम् । भूतलं किं, कुलं किं च भवता सफलीकृतम् ? ॥८७।। का वा त्वदभिधानेन वा वर्णपरम्परा । केन वा कारणेनात्र भवदागमनोत्सवः ? ॥८८।। इत्युदीर्य स्थिते तत्र मुनौ वाग्मीति मागधः । सर्वं निवेदयामास कुमारे लज्जयाऽऽनते ॥८९॥ अत्रान्तरे कुमारस्तां जटाभारतिरोहिताम् ।
पक्ष्मलाक्षीमथाद्राक्षीच्चक्षुःकुमुदकौमुदीम् ॥९०।। १. तरा’ वि० । २. वाग्मिनि वि० । ३. °भारैस्ति' वि० ।
25
D:\amarata.pm5|3rd proof