________________
[२३७
ऋषिदत्ताचरित्रम् ॥]
यदि वा मानुषीयं तदस्या वेधा न वास्तवः । पटुः कर्मणि कुग्रामे कुविन्दः किं नु विन्दति ? ॥६५॥ इति चिन्तासमाचान्तचेता यावन्नृपात्मजः । तद्दर्शनसुखेनास्ते सैन्यं तावदुपाययौ ॥६६।। तुरङ्गखुरकुद्दालदारितावनिरेणुभिः । तद् वनं पुनरावृत्तरात्रिध्वान्तैरिवानशे ॥६७।। आयातसैन्यतुमुलमाकर्ण्य भयसंभ्रमात् । साऽनेशत् तरुणी तोयकरिणीव वनान्तरे ॥६८॥ सर:परिसरक्षोणिमण्डले तरुमण्डले । उत्प्रयाणमथो तत्र चमूरपि चकार सा ॥६९।। कुमारस्तु चरेणेव स्मरेणाकृष्टमानसः । सम्भ्रमी बम्भ्रमीति स्म तामपश्यन् सुलोचनाम् ॥७०।। भ्रमन्नुर्वीरुहामन्तः कुमारो मारविह्वलः । चैत्यं केतुकरेणाऽऽकारयदेकमलोकत ॥७१।। एतस्मिन् भविता सापि भामिनी सुरसद्मनि । विचिन्त्येति विवेशाथ तदन्तः क्षितिपात्मजः ॥७२॥ मूर्ति विधोरिव सुधा-गौरां दूरात् तमोपहाम् । नाभेयस्य विभोस्तत्र स ददर्श महाशयः ॥७३॥ ततो न्याय्यविदानाय्य नानपुष्पोच्चयं स्वयम् । सुधीविधिवदानर्च धन्यम्मन्यो जिनोत्तमम् ॥७४॥ अथ तुष्टाव सद्भावपावनीभूतमानसः । स पाणी संपुटीकृत्य हर्षाश्रुभिरितेक्षणः ॥७५॥ निःशेषसखसंदोह-कन्दकन्दलनाम्बद ।। जयामेयगुणग्राम ! नाभेय ! जिनपुङ्गव ! ॥६॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः ।
अद्य मे सफलः पाणिरद्य मे सफलं वचः ॥७७॥ १. नास्ति वि० । २. शायं वि० ।
D:\amarata.pm5\3rd proof