________________
२३६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ शय्यां त्यज कुमारेन्द्र ! विभातेयं विभावरी । तमस्तिरोहिता याऽभूदाविर्भूतं श्रिया तया ॥५३।। निशम्येति कुमारोऽपि शकुनग्रन्थिमादरात् । बबन्ध सिद्धये तूर्णं तल्पमुज्झाञ्चकार च ॥५४॥ प्रक्षाल्य वदनाम्भोजं देवपूजां विधाय च । अदापयत् प्रयाणाय ढक्कामथ नरेन्द्रसूः ॥५५॥ ढक्कानिनदमाकर्ण्य प्रयाणोपक्रमं ततः । कुर्वाणे सत्वरं सैन्ये तुमुलाकुलिताम्बरे ॥५६।। निजैः कतिपयैरेव सवयोभिः समन्वितः । चचाल चरनिर्दिश्यमानवा नृपात्मजः ॥५७।। युग्मम् ।। अग्रेसर: कुमारस्य प्लवमानः प्लवङ्गवत् । एकस्तारगिरा कश्चि-दपाठीदिति मागधः ॥५८।। व्योमश्रीकुचकुङ्कमपङ्को दिनमुखतरुप्रवालभरः । तिमिरवनदावदहनः प्रभवति भगवानयं भानुः ॥५९।। [आर्या] तीरं तीरमनारतमटतस्तत्सङ्गमाशया सरसः । संघटयति पतिरह्नाममुं दयितां चक्रवाकस्य ॥६०॥ तदथाम्रवणं भूपनन्दनो बन्दिनो गिरि । दत्तकर्णः क्रमेणाऽऽप ससखो निकषा सरः ॥६१।। तदन्तश्चरनिर्दिष्टलतान्तरितविग्रहः । तां ददर्श तथैवैष विस्मितश्चेत्यचिन्तयत् ॥६२॥ यदीयं स्वर्वधूर्नेत्रमाला तत्सफला हरेः । भोगीश एव भोगीशस्तन्वीयमुरगी यदि ॥६३।। स्त्रीरत्नमीदृशं मर्त्यलोकेऽस्मिन् घटतेऽपि न । कर्पूरपूर: किमहो जायते लवणाकरे ? ॥६४।।
१. तेऽम्बरे वि० । २. रहनां नन वि० । ३. तदन्वा वि० । ४. भोगी स एव वि० ।
D:lamarata.pm5\3rd proof