________________
[२३५
ऋषिदत्ताचरित्रम् ॥]
तानवादीत् कुमारोऽपि प्रसादाञ्चितया गिरा । किं चिरेण समायाता यूयं, तेऽपीदमूचिरे ॥४१॥ जग्मिवांसो वयं देवादेशतः स्थानकादतः । अपश्यामैकमम्भोधिसदृशं प्रान्तरे सर: ॥४२।। तत्र यामो वयं यावत् तावच्चूतवनान्तरे । वनश्रियमिवाद्राक्ष्म दोलाकेलिं वितन्वतीम् ॥४३।। स्वर्वधूरूपविजयादुदस्तामिव केतनम् । बिभ्रती कबरी लोलायितामेकां सुलोचनाम् ॥४४॥ युग्मम् ।। विलोक्य सहसाऽकस्मादस्मान् वनमृगीव सा । अलक्षितगतिः क्वापि तरुकुञ्जे तिरोदधे ॥४५॥ विलोकयद्भिरथ तत् काननं तरुणा तरुम् । नैव सा ददृशेऽस्माभिर्गतभाग्यैरिवौषधीः ॥४६।। वेलाऽलगत्ततोऽस्माकं हेलाविजितशात्रव ! । इत्याकर्ण्य कुमारोऽपि विस्मयात्तरलोऽभवत् ॥४७।। अत्रान्तरे च तरणिः पत्रैरापीय वारुणीम् । मुक्ताम्बरोऽपरोदन्वत्तटे क्षीव इवालुठत् ।।४८।। विध्यातेऽत्र चित्रभानौ पयोधिसलिलैरिव । धूमेनेव तदीयेन व्यानशे तमसा जगत् ॥४९॥ अथाभिवादयन् सप्त-ऋषीनिव पुर:स्थितान् । प्रसारितकरः साक्षादुद्ययौ यज्वनामिनः ॥५०॥ तान् विसृज्य कुमारोऽथ सान्ध्यकृत्यं विधाय च । हंसतूलीमलङ्कृत्य तां निनाय विभावरीम् ॥५१॥ अथोच्चकैः प्रयुञ्जानास्तस्मै जयजयाशिषम् । प्रातनिवेदयामासुरिति मङ्गलपाठकाः ॥५२॥
१. तरुणाकुलम् L. । २. दतो वि० । ३. योत्त वि० ।
D:\amarata.pm5|3rd proof