SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २३४] [ऋषिदत्ताचरित्रसंग्रहः ॥ वक्षसीव जगत्त्रय्या व्योम्नि पीनपयोधरे । तदाश्वीयखुरोधूता धूलिः कम्बुकतामगात् ॥२९।। अथ तुल्यप्रतिद्वन्द्वी युगान्तप्रतिचारकः । मिथो मिलितयोरासीद् दारुणः सैन्ययो रणः ॥३०॥ तूर्यताम्रानकध्वानक्ष्वेडाबंहितहेषितैः । तदा नादमयं विश्वमयं विश्वमजायत ॥३१॥ घनाघनेषु वर्षत्सु शरेषु शरधोरणीम् । विपक्षवाहिनीहंसैरुड्डीयोड्डीय निर्गतम् ॥३२॥ अथोच्चैर्धार्यमाणोऽपि वल्गाचालिभिरञ्जसा । गत्वाऽरिदमनं प्राह कुमारोऽसमसाहसः ॥३३॥ रे संग्रामसरोभेक ! विवेकविकलाऽऽकृते ! । आगतोऽयमसिासचिकीस्त्वां भुजगो मम ॥३४॥ वदन्निति पराजित्य कृतायुधमनायुधः । अग्रहीद् विग्रही जीवग्राहमेवारिभूपतिम् ॥३५।। अथ दत्त्वा प्रयाणानि वीरः कतिपयानि सः । तं मुमोच पुना राज्यभाजनीकृत्य भूपतिम् ॥३६।। तदानीं सोऽपि संतज्य राज्यं प्राज्यविरागवान् । प्रव्रज्य च शिवं प्राप तीर्थे तीर्थकृतो नमः ॥३७॥ $$ कुमारोऽपि व्रजन्नेका-मटवीमटति स्म सः । सैंहिकेयभियेवास्यां नार्केन्दू किरतः करान् ॥३८॥ तदन्तरे महीनाथ-सूनोरथ वरूथिनी । आवास्य तामरण्यानीमकरोद् नगरीनिभाम् ॥३९।। सायाह्ने च समागत्य सभासीनं नृपात्मजम् । प्रणेमुर्जलवीक्षायै प्रस्थापितचराश्चराः ॥४०॥ १. तानानकस्वान वि० । २. मिदं वि० L. । ३. गतः P.। 20 D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy