________________
[२३३
ऋषिदत्ताचरित्रम् ॥]
कुमार ! पौरुषाधार ! तवारिदमनो नृपः । समादिशति वीराणां गणनासु धुरि स्थितः ॥१७॥ यदस्मद्देशसीमान्तप्रवेशस्तव मृत्यवे । मृगस्येव मृगारातिगृहान्तरविहारिता ॥१८।। युद्धश्रद्धमतेस्तत् त्वं मम रे रे पुरो भव । यद्यसि प्रधनाकाङ्क्षाकण्डूलभुजमण्डलः ॥१९।। ममाज्ञामथवाऽऽदाय निवर्तस्व गृहानभि । पुत्रशोकानभिज्ञाऽस्तु जननी ते तपस्विनी ॥२०॥ वचस्यवसिते तस्य भृकुटीभीषणाननः । कुमार: स्माह रे दूत ! गत्वा तं कुलपांशनम् ॥२१॥ आत्मनः स्वामिनं ब्रहि. यदयं नपनन्दनः । त्वामेव हन्तुमायातो वैनतेय इवोरगम् ॥२२॥ युग्मम् ॥ यदाज्ञा भुवनभ्रान्तिश्रान्तेषु रिपुमौलिषु । विशश्राम स मे हेमरथस्तातोऽद्य लज्जते ॥२३।। यदि त्वयि समायाते क्रममुत्क्रमयाम्यहम् । स्थितोऽहमेष संनह्य युद्धकौतुकतर्षितः ॥२४।। इत्युदीर्य स्फुरद्धैर्यः कुमारः स्फारमत्सरः । अधारयद् गले दूतमथ नूतनविक्रमः ॥२५॥ गत्वाऽऽचख्यौ स दूतोऽपि स्वामिने रणकामिने । कुमारोदन्तमखिलं संपरायभियां खिलम् ॥२६।। दूताख्यातमिति श्रुत्वा कुमारं प्रति भूपतिः । उच्चचाल चमूपांशु-प्रकरच्छन्नभास्करः ॥२७।। वाताश्विभिः परिज्ञाय तमायान्तं रणेच्छया । स्माभिषेणयति क्षोणि-पालसूरपि वैरिणम् ॥२८।।
१. गृहान् प्रति वि० । २. भ्रकुटी वि० । ३. त्व वि० । ४. श्रान्तेव वि० । ५. 'मा कर्षयाम्यहम् । ६. युद्ध वि० । ७. खिलां P. । ८. “मथ वि० L. I
D:\amarata.pm5|3rd proof