________________
२३२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ सुतस्तयोस्तु कनकरथोऽजन्यनिरुद्धरुक् । १चित्रं येनार्पिता हन्त, हस्तेन द्विषतामुचा ॥५॥ इतः पुर्यस्ति कावेरी कौबेरीव पुरी श्रिया । सुन्दरपाणिः पृथिवीपतिः पालयति स्म ताम् ॥६॥ पौलोमी वासवस्येव वासुला तस्य वल्लभा । असूत रुक्मिणी नाम तनयां तविषीमिव ॥७॥ सुतामुद्यौवनां वीक्ष्य तामथो पितुरन्तिकं । प्राहिणोज्जननी सर्वाङ्गीणाभरणधारिणीम् ॥८॥ कृतप्रणामामारोप्य तनयामङ्कमञ्जसा । विलोक्य च नृपोऽपीति चिन्तयामास चेतसि ॥९॥ कस्मै वराय दातव्या यौवनस्थयमङ्गजा । हुं ज्ञातमस्ति कनकरथो हेमरथात्मजः ॥१०॥ अस्याः स एव सगुणः पतिर्भवति नापरः । इति मन्त्रिभिरालोच्य तस्मै दूतं विसृष्टवान् ॥११॥ दूताहूतोऽथ कनकरथः स्वपितुराज्ञया । सद्यश्चचाल कावेरी प्रति सैन्यैरनुद्रतः ॥१२॥ क्रमतो गच्छतस्तस्य प्रयाणैरविलम्बितैः । आवासाञ्जगृहे सैन्यं सीमान्तवनभूमिषु ॥१३।। उत्तार्यमाणभारेषु रवणेषु विराविषु । परितस्ताड्यमानासु पटमण्डपपङ्क्तिषु ॥१४॥ उत्पर्याणितपृष्ठेषु वेल्लत्सु भुवि वाजिषु । स्तम्भमानीयमानेषु कुञ्जरेषु निषादिभिः ॥१५॥ वेत्रासनमलङ्कृत्य स्थितं चूततरोस्तले । कुमारं कश्चिदागत्य दूतः साकूतमब्रवीत् ॥१६॥ त्रिभिर्विशेषकम् ॥
१. येनारिबाणसंभूतिरुषा कीर्तिः कृता करे ॥५॥ वि० उ० । २. पालः P. । ३. रन्तिके वि० । ४. 'राविषु वि०।
D:\amarata.pm5|3rd proof