________________
ॐ नमः सिद्धं ॥
अज्ञातकर्तृकं ऋषिदत्ताचरित्रम् ॥
दुग्गइपहपत्थाणं, अब्भक्खाणं पयासयंतीए ।
रिसिदत्ताए बहुसो, बहुसोयसंतावा ॥१॥ व्याख्या-ऋषिदत्तया प्राप्ताः, के ? 'बहुसोयसंतावा', शोकहेतवः संतापा: शोकसंतापाः, बहवश्च ते शोकसंतापाश्च, बहुशोकसंतापाः । किं एकवारं ? इत्याह'बहुसो' बहुशः अनेकधा । ‘पयासंतीए' प्रकाशयन्त्याः असत् प्ररूपयन्त्याः । किं तत् ? 'अब्भक्खाणं' अभ्याख्यानम् , व्यलीकं, आलम् इत्यर्थः । किंविशिष्टं ? 'दुग्गइपहपत्थाणं' दुर्गस्तिर्यग्नरकरूपायाः पन्था दुर्गतिपन्थाः, दुर्गतिपथः, तत्र 10 प्रस्थानं गमनं । यद्वा दुर्गतिपथाम् प्रस्थानमिव प्रस्थानं, गमनलग्नसाधनवस्तुविन्यासमिति भावः । संक्षेपार्थोऽयम् , व्यासार्थस्तु कथानकादववसेयः । तच्चेदम् –
अस्तीह भरतक्षेत्रे देशो नाभिनिवेशभूः । मध्यदेश इति ख्यातो मध्यदेश इवावनेः ॥१॥ पुरं तत्रास्ति विपदां मर्दनं रथमर्दनम् । दानकोविदयत्पौरच्छात्राः कल्पद्रुमादयः ॥२॥ तस्मिन्नासीत् किल महारथो हेमरथो नृपः । यस्यासिर्भुजगः क्षोणीभुजां लक्ष्मीमकामयत् ॥३॥ स्वरूपविजितानङ्गवल्लभा वल्लभाऽभवत् ।
सुयशाः सुयशास्तस्य त्रस्यदेणविलोचना ॥४॥ १. वावनौ वि० ।
D:\amarata.pm5\3rd proof