SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 10 २१६] [ऋषिदत्ताचरित्रसंग्रहः ॥ अथ देहद्वारम् - "पुष्णासि यं देहमघान्यचिन्तयं-स्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वन्निति चिन्तयाऽऽयति, जगत्ययं वञ्चयते हि धूर्तराट्" ॥१५॥ [इन्द्रवंशा] [अ.क. ५।१] 5 "चेद् वाञ्छसीदमवितुं परलोकदुःख-भीत्या ततो न कुरुषे किमु पुण्यमेव । शक्यं न रक्षितुमिदं हि न दुःखभीतिः, पुण्यं विना क्षयमुपैति च वज्रिणोऽपि" ॥१६॥ _ [वसन्त.][अ.क. ५।३] "देहे विमुह्य कुरुषे किमघं न वेत्सि ?, देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्निर्बाधा न तेऽस्य, न नभोवदनाश्रयस्थः" ॥१७॥ 1 [वसन्त.][अ.क. ५।४] "परोपकारोऽस्ति तपो जपो वा, विनिश्वराद् यस्य फलं न देहात् । स भाटकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम्" ॥९८॥ [ उपजाति ] [अ.क. ५७] "मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । 15 देहेन चेदात्महितं सुसाधं, धर्मान्न किं तद् यतसेऽत्र मूढ !" ॥१९॥ [ उपजाति] [अ.क. ५८] "अथिरेण थिरो समलेण, निम्मलो परवसेण साहीणो । देहेण जइ विढप्पइ धम्मो, ता किं न पज्जत्तं" ॥१००॥ [आर्या. ] [ वै.श./९४] अथ विषयद्वारम् - 20 "अत्यल्पकल्पितसुखाय किमिन्द्रियार्थस्-त्वं मुह्यसि प्रतिपदं प्रचुरप्रमादः । एते क्षिपन्ति गहने भवभीमकक्षे, जन्तून् न यत्र सुलभा शिवमार्गदृष्टिः" ॥१०१॥ [वसन्त.][अ. क. ६।१] "आपातरम्ये परिणामदुःखे, सुखे कथं वैषयिके रतोऽसि । जडोऽपि कार्यं रचयन् हितार्थी, करोति विद्वन् ! यदुदर्कतर्कम्" ॥१०२॥ [उपजाति] [अ. क. ६।२] "यदिन्द्रियार्थैरिह शर्मबिन्दुवद् , यदर्णववत् स्वः शिवगं परत्र च । तयोमिथोऽस्ति प्रतिपक्षता कृतिन् ! विशेषदृष्ट्याऽन्यतरद् गृहाण तत्" ॥१०३॥ 1 [वंशस्थ] [अ.क. ६३] "गर्भवास-नरकादिवेदनाः, पश्यतोऽनवरतं श्रुतेक्षणैः । 30 नो कषायविषयेषु मानसं, श्लिष्यते बुध ! विचिन्तयेति ताः" ॥१०४॥ [रथोद्धता] [अ.क. ६५] 25 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy