________________
10
ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥]
[२१५ अथाऽपत्यद्वारम् - "मा भूरपत्यान्यवलोकमानः, स्नेहाकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽस्ति, दृढं निबद्धो निगडैरमीभिः ॥८५॥[उ.][अ.क. ३।१] "आजीवितं जीव ! भवान्तरेऽपि च, शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्विविधाऽर्तिदानतोऽनिशं निहन्येत समाधिरात्मनः" ॥८६॥ [ नन्दिनी] 5
[अ.क. ३२] "त्राणाशक्तेरापदि सम्बन्धाऽनन्त्यतो मिथोऽङ्गवताम् ।
सन्देहाच्चोपकृते, र्माऽपत्येषु स्निहो जीव !" ॥८७॥ [आर्या ] [अ.क. ३।४] अथ धनद्वारम् - "याः सुखोपकृतिकृत्त्वधिया त्वं मेलयन्नसि रमाममताभाक् ।
पाप्मनोऽधिकरणत्वत, एता हेतवो ददति संसृतिपातम्" ॥८८॥ [अ.क. ४।१] "यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणाऽऽमयाद्या, हन्तुं धनेष्वेषु क एव मोहः" ॥८९॥ [ इन्द्रवज्रा]
[अ.क. ४।२] "ममत्वमात्रेण मनःप्रसाद-सुखं धनैरल्पकमल्पकालम् ।
15 आरम्भपापैस्सुचिरं सुदुःखं, स्याद् दुर्गतौ दारुणमित्यवेहि" ॥१०॥ [ उपजाति ]
[अ.क. ४।३] "द्रव्यस्तवात्मा धनसाधनो न, धर्मोऽपि सारम्भतयाऽतिशुद्धः। निस्सङ्गतात्मा त्वतिशुद्धयोगान् , मुक्तिश्रियं यच्छति तद्भवेऽपि" ॥११॥
[इन्द्रवज्रा][अ.क. ४।४] 20 "क्षेत्र-वास्तु-धन-धान्य-गवाश्चै-र्मेलितैर्सनिधिभिस्तनुभाजाम् । क्लेश-पापनरकाभ्यधिकः स्यात् , को गुणो यदि न धर्मनियोगः" ॥१२॥
[स्वागता] [अ.क.४५] "आरम्भैर्भरितो निमज्जति यतः, प्राणी भवाम्भोनिधावीहन्ते कुनृपादयश्च पुरुषा, येन च्छलाद् बाधितुम् ।
25 चिन्ता व्याकुलता कृतेश्चहरते यो धर्मकर्मस्मृति, विज्ञा ! भूरिपरिग्रहंत्यजत तं भोग्यं परैः प्रायशः" ॥९३॥शा.वि.[अ.क. ४।६] "क्षेत्रेषु नो वपसि यत् सदपि स्वमेतद् , यातासि तत् परभवे किमिदं गृहीत्वा । तस्याऽर्जनादिजनिताऽघचयार्जितात्ते, भावी कथं नरकदुःखभयाच्च मोक्षः" ॥१४॥
[व.ति.][अ.क. ४७] 30
D:\amarata.pm5\3rd proof