SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २१४] [ऋषिदत्ताचरित्रसंग्रहः ॥ इतश्च- "स्मरन्ती श्रीनमस्कारं, धरन्ती धर्ममार्हतम् । हरन्ती संशयान् सर्वान् , चरन्ती चारुचर्यया ॥७६।। पूरयन्ती जगत् कीर्त्या, चूरयन्ती स्वकर्म च । चिन्वन्ती पुण्यपाथेयं, तन्वन्ती दुस्तपं तपः ॥७७।। निवर्तिनी कुमार्गाणां, धर्ममार्गप्रवर्तिनी । प्रवर्तिनी चन्द्रयशा, तत्रैव समुपागमत् ॥७८।। भद्रसूरिविनेयायास् , तत्र श्रुण्वन्ति देशनाम् । महोदयाभिलाषिण्यो गङ्गसेनादिमाः स्त्रियः ॥७९।। (चतुर्भिः कलापकम्) तथाहि10 "रामाः कामाभिरामाः द्रविणपरियुता पुत्र-पुत्र्यादिवर्गः स्नानाद्यैर्मिष्टभोज्यै-मधुरतररसैलालितोऽसौ स्वदेहः । स्वाऽन्यस्त्रीरूपनानारससुरभिमहावस्तुगीतस्वनाऽऽद्या, भोगाभोगास्सहाया, न खलु तनुभृतां, धर्म एकस्सहायः॥८०॥स्रग्धरा[ ] अत्र स्त्रीद्वारम् - "अङ्गेषु येषु परिमुह्यसि कामिनीनां, चेतः प्रसीद विश च क्षणमन्तरेषाम् । सम्यक् तमीक्ष्य विरमाऽऽशु च पिण्डकेभ्यस्तेभ्यश्च शुच्यशुचि चारुविचारमिच्छन्" ॥८१॥ [ वसन्त.] [अ.क.२५] "विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्ष्यमाण ! । भाविकदर्थनास्ताः "॥८२॥[उप.][अ.क. २।६] "अमेध्यभस्रा बहुरन्ध्रनिर्यन्-मलाविलोद्यत्कृमिजालकीर्णा । चापल्य-माया-ऽनृतवञ्चका स्त्री, संस्कारमोहान्नरकाय भुक्ता" ॥८३॥ [ उप.] [अ.क. २७] "निर्भूमिविषकन्दली, गतदरी व्याघ्री, निराह्वो महा25 व्याधिर्मृत्युकारणश्च ललनाऽनभ्रा च वज्राऽशनिः । बन्धुस्नेहविघात-साहस-मृषावादादिसन्तापभूः, प्रत्यक्षापि च 'राक्षसी'ति बिरुदैः ख्याताऽऽगमे, त्यज्यताम्" ॥८४॥ [शा.वि.] [अ.क. २८] mo समTO D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy