SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ ] पेयाऽपेयाऽशनाऽभक्ष्य-तत्त्वाऽतत्त्वप्रकाशिनीम् । जन्मिनां जन्म-मृत्यादि- दुष्टाधि-व्याधिनाशिनीम् ॥६४॥ प्राज्ञाऽप्राज्ञहृदयज्ञान-तालोद्घाटनकुञ्चिकाम् । द्वादशाऽनुत्तर-स्वर्ग-मुक्तिमार्गप्रदीपिकाम् ॥६५॥ देशतो विरति केचित् प्रपन्नाः केऽपि दर्शनम् । प्रापुः पुरं परे सर्वे राज-राज्ञ्यौ विना जनाः ॥६६॥ [पञ्चभिर्विशेषकम्] ततश्च– विमुच्यासनमात्मीयमात्मनीनं नृपप्रिया । संशयं हृदि निश्चित्य, सूरीन् प्रश्नयति स्फुटम् ॥६७॥ निशाचर्याः कलङ्काऽभूद् भवेऽस्मिन् किं मम प्रभो ! । इत्युक्ते सूरयः प्रोचुः, श्रुणु त्वं राजवल्लभे ! ॥६८॥ तथाहि - अस्मिन् भरतक्षेत्रे, नाम्ना रत्नपुरं पुरम् । गङ्गदत्तो नृपस्तत्र, स्वं राज्यं परिपालयेत् ॥६९॥ तत् कीदृशम् , [ २१३ वापी-वप्र-विहार-वर्ण- वनिता - वाग्मी वनं वाटिका, वैद्य- - ब्राह्मण - वादि-वृन्द- विबुधा, वेश्या वणिग् वाहिनी । विद्या - वीर - विवेक-वित्त-विनया वाचंयमा वल्लवा, वस्त्रै(स्त्रं)र्वारण-वाजि - वेसरवरं राज्यं च तैः शोभते ॥७०॥ [ शा.वि.] जाया रवेरिव च्छाया, रोहिणी रोहिणीपतेः । शचीपतेर्यथा रम्भा, सप्तर्षीणामरुन्धती ॥ ७१ ॥ चण्डी चण्डीश्वरस्येव, सावित्री पद्मजन्मनः । पद्मा पद्मापतेः पत्नी, हिमाद्रेर्मेनका यथा ॥७२॥ रतिर्मकरकेतोश्च, श्रीरामस्येव जानकी । गङ्गाविशुद्धसम्यक्त्वा, तस्य गङ्गा प्रिया यथा ॥ ७३|| [त्रिभिर्विशेषकम् ] शचीपतेर्जयन्तीव, ब्रह्मणः श्रीसरस्वती । कालिन्दी भास्करस्येव, जनकस्येव जानकी ||७४ || भीमस्य दमयंतीव, द्रौपदी द्रुपदस्य च । तस्य राज्ञस्तथा जाता, गङ्गसेनाऽभिधा सुता ॥७५॥। D:\amarata.pm5\3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy