________________
ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥]
[२०७ प्रस्फुरद्वैक्रियाह्वान-जङ्घाचारणलब्धिभिः । द्वादशाङ्गश्रुतधरै-व्रतिभिर्बहुजातिभिः ॥४८।। कृतपञ्चविधाचार-स्वाध्यायादृतिभिर्दृढम् । पठितैकादशाङ्गीभि-व्रतिनीभिश्च संश्रितम् ॥४९॥ पुलकाञ्जनपद्माऽऽख्य-माणिक्यैरोहणाचलः । वेष्टितः पाञ्चजन्याद्यै-दक्षिणावर्तको यथा ॥५०।। अनल्पकल्पवल्लीभिः, कल्पितः कल्पपादपः । रक्ता-रक्तावती-गङ्गा-नदीभिर्नीरधिर्यथा ॥५१॥ ज्योतिश्चक्रसमाकीर्णो, रोहिणीरमणो यथा । तथा श्रीसूरयो रेजुः, षट्त्रिंशद्गुणधारिणः" ॥५२॥ [एकादशभिर्विशेषकम्] 10 स्वकोटीरं विना दत्ते, राज्ञा भूषादिभिर्धनैः ।
तोषितः पोषितश्चाऽन्नैः, प्रेषितोऽसौ गुरुं प्रति ॥५३॥ यद् आगमे [औपपातिकसूत्रे ]
"तए णं कोणिऍ राया, तस्स पवित्तवाइयस्स । अट्टत्तरसहस्सं पीइदाणं दलइ, जाव पडिविसज्जेइ"।
“वित्ती य सुवन्नस्सा, बारस अद्धं च सहस्साइं,
तावइ य चिय कोडी, पीइदाणं तु चक्किस्स" ॥५४॥[ ] "एवं चेव पमाणं, णवरं रययं तु केसवा दिन्ति ।।
मंडलियाण सहस्सा वित्ती पीई सहस्सा" ॥५५॥[ ] "भत्तिविहवाणुरूवं, अन्ने वि दिति इब्भमाइया । सोऊण जिणागमणं, निउत्त-अनिउत्तएसुं वा" ॥५६॥ [ ] तस्मिन्नवसरे भूपः, समं श्रीऋषिदत्तया । श्रीपादलक्षिकारूढ: प्रौढकोटीरमण्डितः ॥५७॥ अर्थिनां विदधद् दानं, सन्मानं स्वजने जने । निजोद्याने महारम्ये, जग्मिवान् कुसुमाकरे ॥५८॥ [युग्मम्] सूर्याभवन्नमस्कृत्य, श्रीसूरीन् स महीपतिः । तांस्त्रिप्रदक्षिणीचक्रे, स्वचक्रेण परीवृतः ॥५९।।
25
D:\amarata.pm5\3rd proof