________________
5
10
15
20
25
२०६]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
श्रीर्जलतरङ्गलोला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटलचपलं च बलं, तडिल्लतोद्योतसममायुः ||३५|| [आर्या] सम्पदो जलधिवीचिविलोला, यौवनं त्रि- चतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, . किं धनैः, कुरुत धर्ममनिन्द्यम् ॥३६॥ [स्वागता]
एवं भवस्वरूपं तद्-राज- राज्ञ्यौ विचिन्त्य च । संपन्ने धर्म-कर्माभ्यां, स्फारवैराग्यमीयतुः ||३७|| ‘“रम्यवातायने तस्मिन्नतिवाहयतस्तमीम् । स्मरतः श्रीनमस्कारं, मुहूर्ते ब्राह्मनामनि ॥३८॥ प्रौढप्रभाते प्रोद्भूते, तनुतस्तीर्थवन्दनम् । पत्नीयुजः प्रभोरस्याऽभङ्गवैराग्यरङ्गिणः ॥३९॥ द्रागेत्योद्यानपालेन, हर्षाद् विज्ञप्तमात्मना । विधाय विधिनाऽलीके, करौ पादौ प्रणम्य च ॥४०॥ देवाऽद्य समवासार्षुः कान्तारे कुसुमाकरे ।
श्रीभद्रयशआचार्या, ज्ञानिनः सुतपस्विनः ॥४१॥ [ चतु. विशे. ] ते कीदृशाः ?
" एक-द्वि- त्रि- चतुष्- पञ्च - षण्मासक्षपणक्षणैः । द्वादशप्रतिमाधारैः, षष्ठाऽष्टम- चतुर्थकैः ॥४२॥ श्रीभद्र-सर्वतोभद्र-महाभद्रप्रपन्नकैः । लघु-वृद्धमृगाधीश- नि: क्रीडितविधायिभिः ॥४३॥ कृतवज्ञैणभृन्मध्यैः, परिहारविशुद्धकैः । घन-प्रतर-वर्गोग्र-गुणरत्नधरैः परैः ॥४४॥ अत्युग्रस्वर्णमुक्तैक-माणिक्यावलिधारिभिः । वर्धमानतपःशूरैः, परीषहधुरन्धरैः ॥४५॥ धृतपञ्चविधाचारै-र्महाव्रतधुराधरैः । स्फुरन्मति - श्रुतज्ञानैः, क्षीर - मध्वा श्रवाभिधैः ॥४६॥ विप्रुण्कफ-मलाऽमर्श- सर्वौषधिमहर्धिकैः । पदानुसारिप्रज्ञाढ्यैः, कुष्टबीजमतिश्रितैः ॥४७||
D:\amarata.pm5\3rd proof