________________
ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥]
[२०५ प्रोद्दण्ड-कुन्त-कोदण्ड-क्षुरिका-खड्ग-खेटकैः । स्फुरत्तोमर-तूणीर-पशु-मुद्गर-शक्तिभिः ॥२२॥ श्रीपादलक्षिकाप्रौढ-प्रस्फुरद्राजवाहनैः । सश्रीकश्रीकरीयुग्म,-पवित्रच्छत्र-चामरैः ॥२३॥ एतैभित्तिस्थितैश्चित्र-विचित्रश्चित्रकारिणि । भास्वद्वातायने तिष्ठन् , स्वर्विमानानुकारिणि ॥२४॥ तत्र स्वर्णरथोऽन्येवू , रङ्गतस्सङ्गत: स्रिया । गीतगानं मृदुध्वानं, श्रुणुयाद् रागहेतुकम् ॥२५।। [नवभिर्विशेषकम्] निरीक्षते निजं रूपं, माद्यन् मकुरमण्डले । स्फारनेपथ्यभूषादिरचनाकृतिपूर्वकम् ॥२६॥ आम्र-जम्बीर-नारिङ्गा-ऽक्षोट-निस्वानिका[?] नवाः । सुस्वादु-मृदुमृद्वीका,-मोदकान् मोदकानपि ॥२७॥ प्रियाल-कदलीकान्त-श्रीफलान्यत्ति नित्यशः । स्वादिमं स्वादयामास, नागवल्लीदलादिकम् ॥२८॥ कृष्णागर-तुरुष्कादि-धूपोद्गहनसुन्दरम् । चमरी-वालधिव्यूह-बालव्यजनपूर्वकम् ॥२९।। कस्तूरी-घनसार-श्री-मिश्रचन्दनचर्चितः । शेतेऽसौ सुमनःशय्यां, स्व:सरित्पुलिनोपमाम् ॥३०॥ श्रृङ्गाररसभृङ्गारः, कामश्रीरागसागरः । विलालसीति स्वर्गीव, भोगान् पञ्चविधानिति ॥३१॥ अकस्मात् तावदद्राक्षीत् , तडित्वत्पटलं प्रभुः । प्रत्याह स्वामिनं पत्नी, किमेतत् तिमिरं दिवा ॥३२॥ तेनाऽपि सर्वतो व्याप्तं, क्षणेन व्योममण्डलम् । तत्क्षणाद् वृष्टिमाधाय, विलीनं वातयोगतः ॥३३॥ दृष्टं नष्टमभ्रवृन्दं दृष्ट्वोवाच प्रियां प्रियः । अस्मिन्नसारे संसारे, वस्त्वनित्यं तथाऽस्त्यहो ॥३४।।
D:\amarata.pm513rd proof