SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥ इतश्च - अथाऽसौ न्यायधर्मेण, सधर्मो धरणीधवः । नाम्ना स्वर्णरथः पृथ्वीं, पालयेत् परमादरात् ॥१॥ यथा श्रीधरणः पद्मा-वैरोट्याभ्यां परीवृतः । श्रीशङ्करो यथा गौरी-गङ्गाभ्यां गर्जति स्फुटम् ॥२॥ रुक्मिणी-ऋषिदत्ताख्यप्रियाभ्यां सममेव च । व्यक्तं भुनक्त्यसौ नीत्या, सप्ताङ्गं राज्यमन्वहम् ||३|| भुङ्क्ते भोगान् महाऽऽभोगान्, समं श्रीऋषिदत्तया । राजा स्वर्णरथः प्रीत्या, स्वलोकव्यवहारतः ॥४॥ सप्तभिर्वासरैस्सार्धे, र्मासैश्च नवभिः क्रमात् । ऋषिदत्ता ससत्त्वा सा, सुखेन सुषुवे सुतम् ॥५॥ वर्धापनादिमाङ्गल्यं, तन्वन्ति तनुजोत्सवे । तन्वङ्ग्यो नवनीरङ्ग्यो, गायन्ति धवलानिह ||६|| मणि-स्वर्ण-द्विप-द्रव्य - मुद्रिका - विद्रुमादिमम् । दत्तेऽर्थिनामसौ दानं, निदानं पुण्यसंपदाम् ॥७॥ यतः -" रागपदे प्रेमपदे, लोभपदेऽहङ्कृतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे, न हि कैर्द्रव्यव्ययः क्रियते ?" ॥८॥ [ ] पत्तनं प्रथयामासोत्तुङ्गतोरणमण्डितम् । महेभ्यान् मुष्णतस्स्तेनान्, मोचयामास चारकात् ॥९॥ उग्रभोगादिराजन्यान्, भोजनाऽऽच्छादनादिभिः । सत्कृत्यास्य नृपः सिंहरथाऽऽख्यां प्रत्यतिष्ठपत् ॥१०॥ D:\amarata.pm5\3rd proof 5 10 15 20
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy