________________
२०२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ सोत्सवं सप्रमोदं च, वाद्याडम्बरपूर्वकम् । प्रवेशं प्रथयामास, श्रीहेमः स्वाङ्गजन्मनः ॥५२८।। स्वर्णोऽथ ऋषिदत्तायाः, सपत्नी रुक्मिणीकृतम् । अखर्वं प्राग्भवं सर्वं, वृत्तान्तं तमवावदीत् ॥५२९।। प्राक्कारितापराधेन, लज्जातोऽवाङ्मुखाम्बुजः । अथो हेमरथो भूपो, ऋषिदत्ताममानयत् ॥५३०।। क्रमात् स्वर्णरथं पुत्रं, प्राज्ये राज्ये निवेश्य तम् । विहाय विविधारम्भं, विदित्वा वार्धकं वयः ॥५३१। संसारासारतां मत्वा, विषयान् विषसन्निभान् । विभाव्याऽनित्यभावं च, भावयेद् भगवगिरा ॥५३२॥ क्षमाभद्रगुरोः पार्वे, वाणी पीयूषसारिणीम् । श्रुत्वा हेमरथो दीक्षामाग्रहादग्रहीद् गृही ॥५३३॥ इति श्रीऋषिदत्ताचरित्रे रुक्मिणीपरिणयन-ऋषिदत्तामहासती
शीलमाहात्म्योपदर्शनाख्यस्तृतीयउल्लाससम्पूर्णः ॥
D:\amarata.pm5\3rd proof