________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ]
ऋषिदत्ता विहस्योचे, विषादं मा कुरु प्रभो ! | विज्ञेयं सर्वमप्येतदौषधीचेष्टितं मम ॥ ५१५ ॥ प्रियाऽवक् त्वं विभो ! पूर्वप्रतिपन्नं प्रदेहि मे । प्रत्युक्तं वल्लभेनैवं, किं ददे देव्यहं तव ॥ ५९६ ॥ साऽऽह चिन्तयसि त्वं मां तथा चिन्तय रुक्मिणीम् । इत्याकर्ण्य कुमारेण, सकर्णेन विचिन्तितम् ॥५१७॥ मद्रोषपोषः किं युक्तः स्वपत्नीं रुक्मिणीं प्रति । मुखमिष्टां मनोदुष्टा मनिष्टामिष्टकारिणीम् ॥५१८।।
यदुक्तम् - " न भवति, भवति च न चिरं, भवति चिरं चेत्, फले विसंवदति । कोपस्सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम्" ॥५१९॥ आर्या [ ] "सुजनो न याति विकृतिं, परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥५२०॥ [ आर्या ] [ ]
‘સજ્જણ તે સજ્જણ હુઈ, દુજ્જણ કિમઇ ન હુંતિ ।
अवगुए। डीई अगर निभ, तुरई हुई सुगंध" ॥ ५२१ ॥ [ दूडो ][ ]
44
ઉવયારહ ઉવયારડઉ, સવ્વો લોય કરેઇ।
અવગુણ કિદ્ધઇ ગુણ કરઇ, વિરલા જણણિ જણેઇ ૫૨૨[દૂહો][] ध्यात्वेति दयितावाचमाचख्यौ स नरेश्वरः ।
अस्त्वेवं त्वद्द्वाचा, यस्मात् महासत्वाः क्षमाधिपाः ॥५२३॥
स्वभर्तृवचनं श्रुत्वा, लज्जाभङ्गमकारयत् । ऋषिदत्ता स्वबुद्ध्या तामाकार्याऽकार्यकारिणीम् ॥५२४॥ समापृच्छ्याऽथ कौबेरीपतिं स्वर्णरथोऽचलत् । प्रियप्रियाद्वयप्रीतः, प्राप्तवान् पत्तनं निजम् ॥५२५॥ राजा हेमरथः स्वर्णरथमभ्याजगाम तम् । निरीक्ष्य तातमायात - मनमद्भक्तितस्सुतः ॥ ५२६||
[ २०१
गाढमालिङ्गयामास, राजा हेमरथः सुतम् । प्रमोदाऽश्रुपयः प्रादुर्भवदानन्दकन्दलः ॥५२७||
D:\amarata.pm5\3rd proof
5
10
15
20
25