________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१९७ त्वद्वल्लभामहं जाने, ज्ञानेन मुनिरुचिवान् । चक्षुभ्र्त्यां पश्यसि त्वं मां, यथा तामप्यहो यथा ॥४७१।। इतश्च दक्षिणाधीशः श्राद्धदेवो महीपतिः । तत्पाद्येऽस्ति, स्फुरद्पा ऋषिदत्तामृगेक्षणा ॥४७२॥ संस्थाप्य स्वं तत्पावें, त्वन्मित्रहितहेतवे । तव प्रियां तां तद्पा -मानयिष्यामि साम्प्रतम् ॥४७३।। अथाऽभाणीत् कुमारस्तं, प्राक् तुल्यं स्वान्तमपितम् । साम्प्रतं मुनिराजेन्द्र ! स्वात्मा संस्थापितस्त्वयि ! ॥४७४।। मुनिः प्रत्याह तं, मित्रं(त्र !) तवात्मा त्वद्गृहेऽस्त्वयम् । तत् त्वया मम दातव्यं, यदाऽहं प्रार्थयामि ते ॥४७५।। कुमारेणोक्तमस्त्वेवमित्युक्ते मुनिपुङ्गवः । पटान्तरित एवाऽसौ तत्राऽभूत् क्षणादपि ॥४७६।। स्थित्वा क्षणान्तरं तत्र, निजौषध्या द्वितीयया । यथोपपातशय्यायां, सुरकान्ता समुद्भवेत् ॥४७७।। त्यक्त्वाऽसौ प्राक्तनं रूपं, ऋषिदत्ताऽभवत् तथा । काम-रत्योरिव प्रीति-मिथो जाता तयोस्तदा ॥४७८।। पुष्करे प्रकटीभूतं, भव्यदिव्यैश्च पञ्चभिः । देवीभिर्नतितं देवैः, कृता वृष्टिस्सुमव्रजैः ॥४७९।। अहोशीलमहोरूपमहोमाहात्म्यमद्भुतम् । अहो धैर्यमहो स्थैर्यमिति घुष्टं सुपर्वभिः ॥४८०॥ शेषेणोल्लसितं सुरैः प्रमुदितं, दिक्कुञ्जरैगर्जितम्, काष्ठाभिः स्फुरितं दिवा विमलितं धाराधरैरुक्षितम् । अम्भोजैर्हसितं, जनैः पुलकितं, रत्नाकरैः सीमितं,
शैलैः शाड्वलितं, द्रुमैश्च फलितं, तस्यास्सुशीलोत्सवे ॥४८१।। [शा.वि.] यतः -"वह्निस्तस्य जलायते, जलनिधिः कुल्यायते तत्क्षणात्,
मेरुः स्वल्पशिलायते, विषरसः पीयूषवर्षायते ।
D:\amarata.pm53rd proof