________________
5
10
15
20
१९६]
44
[ ऋषिदत्ताचरित्रसंग्रहः ॥
न क्षुद्रोऽपि प्रथमसुकृताऽपेक्षया संश्रयाय,
प्राप्ते मित्रे भवति विमुखः, किं पुनर्यस्तथोच्चैः " ॥४६२॥ [ मन्दा. ][ ]
'अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस्
तुङ्गेन त्वां जलद ! शिरसा धारयिष्यत्यवश्यम् ।
आसारेण त्वमपि शमयेस्तस्य नैदाघमग्नि,
सद्भावाऽऽर्द्रः फलति न चिरेणोपकारो महत्सु" ॥४६३॥ [ मन्दा. ][ ] कुरुते स्वामिकार्याणि, भुङ्क्ते भोगान् महाशयः । श्रीसुन्दर्या समं प्रीत्या, राज्यकार्यधुरन्धरः ॥ ४६४ ॥ श्रेष्ठिनां मन्त्रिणां चाऽपि भृत्यानां भूमिवल्लभाः । प्रसन्नाः कुप्रसन्नाः स्यु- र्व्यापारस्थितिरीदृशी ||४६५ ॥ यतः -" निश्शेषा तुरगाऽलिसन्ततिरलं कारागृहं सर्वतो, बन्दीभूतजनैः समं परिचयः, पृथ्व्यैव शय्या सदा । तास्ता मारविडम्बना, अथ पराभूतिः परेभ्यो ध्रुवं,
व्यापारे घटिते तथा विघटितेऽप्येषा स्थितिर्मन्त्रिणाम् ॥४६६॥ [ शा.वि.] पृथुकार्त्तस्वरपात्रं, भूषितनिःशेषपरिजनं देव ! ।
विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥४६७॥ [ आर्या ][ ] [ इति भानुमन्त्रिकथा ॥ ] एतदाख्याय विख्यात - मित्यमात्यनिदर्शनम् । सुस्थः स्वर्णरथस्तेन, कृतस्सुविहितेन सः ॥ ४६८।। अथाऽऽचख्यौ कुमारस्तं, स्वस्वान्तान्तः प्रमोदभाक् । कियद्भिर्दिवसैस्सा मे, मिलिष्यति वद प्रभो ! ॥४६९ ॥ दृष्टा किं वा श्रुता क्वाऽपि, प्रत्यक्षं सा त्वया मुने ! | जीवती(वन्ती) कुत्रचिज्ज्ञाता, निजज्ञानविशेषतः ॥४७०॥
D:\amarata.pm5\3rd proof
""
१. कोऽपि दरिद्रतावतारः कविः कस्यचिन्नृपस्याग्रे सश्लेषं वर्णयति, यदावयोर्गृहं समानं, तद्यथा-मम गृहं पृथुकानां शिशूनां आर्त्तस्वरपात्रम्, भवतश्च पृथु - कार्तस्वरपात्रं - विशालहैमपात्रम्, मम गृहे तु भूवि उषिताः परिजना यत्र तदिति, भवतश्च भूषिताः-अलङ्कृताः परिजनाः यत्र तद् ईदृक् वर्त्तते, मम गृहं बिलात् निर्गतैः रेणुभिः गहनम्, भवतश्च विलसद्भिः करेणुभिः गणैः गहनम्-सङ्कीर्णं विद्यते ।