________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ]
उक्त्वा प्राच्यमनस्विन्या, वृत्तान्तमिति मन्त्रिणः । स्वर्धुनीमगमद् वेगात् स्नानं कर्तुमना मुनिः ॥ ४५०।।
1
अन्यदा श्रीमती सा तु जातुचित् समुपागता । जलकेलिकृते गङ्गां, सखीजनपरीवृता ॥ ४५१ ॥ यावत् सरस्वती श्यामा, नामग्रहणपूर्वकम् । प्रातः स्नानं प्रकुर्वन्तं, श्रीमती तं निरीक्षते ॥ ४५२|| तावत् तदाऽऽख्याश्रवणाज्जाता जातिस्मृतिस्तदा । तद्दर्शनमनुस्मृत्य, ज्ञातः पूर्वो भवस्तया ॥४५३|| वृत्तान्तं एनं निश्चित्य, कण्ठे स्रग्स्थापनादिना । सखीजनसमक्षं तं वृणुते श्रीमती सती ॥ ४५४।। श्रुतः पितृभ्यामुद्वाहः, प्रत्यागतसखीगिरा । तयोस्सङ्गतयोस्तत्र, गङ्गा-सागरसङ्गमे ||४५५॥ पाणिपीडनमाकर्ण्य, तत्र तौ पितरौ गतौ । दृष्ट्वा तयोस्तथायोगं, नीतौ तौ दम्पती गृहम् ||४५६।। स्थापयामासतुस्तौ तौ, दम्पती कति वासरान् । कृत्वा साहसिकं कार्यं, पाणिपीडनहेतुकम् ॥ ४५७ तैस्तैस्सत्कृत्य सत्कृत्यै-र्दानमानाऽशनादिभिः । भर्त्तारं भानुमन्त्रीशं, धन्यां कन्यां निजाङ्गजाम् ॥४५८॥ गङ्गाद्रङ्गात् समं, पुत्र्या पित्रा संप्रेषितोऽथ सः । सोत्सवं सह सैन्यैश्च, संप्राप्तः पत्तनं निजम् ॥४५९॥ स्वराज्यौचित्यकृत्यज्ञं, कृतज्ञं भानुधीसखम् । राजा सत्कृत्य वस्त्राद्यैस्तं व्यापारेष्वतिष्ठिपत् ॥४६०॥ यतः- “कृतज्ञाः, कृतकृत्यास्ते, परोपकृतिकर्मठाः ।
उपकारमनुस्मृत्याऽन्येषां प्रत्युपकुर्वते " ॥ ४६१ ॥ [] मेघदूतेऽपि च [पर्व. १७] “त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना, वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
D:\amarata.pm5\3rd proof
[ १९५
5
10
15
20
25