SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 10 १९०] [ऋषिदत्ताचरित्रसंग्रहः ॥ दो बाहा ऋजु गत्ता, सालंबा सुहडा, गेहसंलग्गा । उद्धट्ठिया लोएहिं, चंपिज्जइ, सुणसु का नारी ॥३९३।। मन्त्री प्रत्याह-निश्रेणिका । क्व हिताहितवासः स्यात् ?, परस्त्रीलम्पटाश्च के ? । अकिञ्चना किमिच्छन्ति ?, किं कुर्वन्ति कुमारिकाः ॥३९४॥ मन्त्री प्रत्याह-[गिरि-वाण्यां, जारा, धनं] गिरिजाऽऽराधनम् । योगिनां किं पदं ध्येयं ?, गुरवे क्रियते किमु ? । कीदृक्षं श्लाघ्यते कार्य-मादौ च्छात्रा पठन्ति किम् ? ॥३९५।। मन्त्री प्रत्याह-[ नमः, सिद्धम्=] ४ नमः सिद्धम् । कथमाशास्ति जननी, सतां चेतसि काऽधिका ? । भूभत किं प्रजानां च, कुर्यात् किं जिनधार्मिकः ॥३९६।। मन्त्री प्राह-[जीव !, दया, पालनं=] जीवदयापालनम् । एवं गोष्ठ्यां समाप्तायां, नृपेणाऽभाणि धीसखः । स्वयमीषद् विहास्यैव,-कष्टं तिष्ठसि विप्रियः ॥३९७।। ततः श्रीभानुना प्रोक्तं-स्वामिन् ! स्वार्थवशादसौ । किं किं न सहते प्राणी, पारवश्येन कर्मणाम् ॥३९८।। यतः -"नीचैर्गोत्राऽवतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्व मन्धत्वं ब्रह्मदत्ते, भरतनृपजयस्सर्वनाशश्च कृष्णे। निर्वाणं नारदेऽपि प्रशमपरिणतिस्सा चिलातीतनूजे, इत्थं कर्माऽत्मवीर्यं, स्फुटमिह गदितं स्पर्धयाऽचिन्त्यरूपम्" ॥३९९॥ [स्रग्धरा] [ ] "ग्रामे वासो, नायको निर्विवेकः, कौटिल्यानामेकपात्रं कलत्रम् । नित्यं रोगः, पारवश्यं च पुंसा,-मेतत् सर्वं, जीवतामेव मृत्युः" ॥४००॥ [शालिनी][ ] "वृक्षं क्षीणफलं त्यजन्ति विहगाः, शुष्कं सरस्सारसाः, निर्द्रव्यं पुरुषं त्यजन्ति गणिका, भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा, दग्धं वनान्तं मृगास्सर्वस्स्वार्थवशाज्जनोऽभिरमते. नो कस्य को वल्लभः" ॥४०१॥ [शा.वि.][ ] 15 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy