SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥] [१९१ "तिरिया कसंऽकुसाऽऽरा-निवाय-वह-बंध-मारणसयाई, न वि इहयं पाविंति, परत्थ जइ नियमिता हुंता ॥४०२॥[आर्या ] [ उप.मा./२८१] प्रोक्तं राज्ञा ततो मन्त्रिन्नद्येत्याकणितं मया । त्वत्प्रिया त्वद्वियोगेन, दैवयोगाद् दिवङ्गता ॥४०३।। तत्रस्थो यावदोषीन्मन्त्री भानुरिदं वचः । सरस्वतीत्यसौ जल्पन्मूच्छितस्तावदेव हि ॥४०४॥ भूभुजा वालिता तस्योपचारैः शीतलैर्जलैः । मूर्छा स्वतुच्छवात्सल्यनिष्णातस्य स्वमन्त्रिणः ॥४०५।। तत्प्रेमचेष्टितं वीक्ष्य, भ्रान्त्वाऽसौ कियती भुवम् । कुर्वन् शीघ्रप्रयाणानि, संप्राप्तः स्वपुरं नृपः ॥४०६।। ततः स्वमन्दिरं मन्त्री, प्राप्तवान् स्वनृपाज्ञया । सरस्वतीवियुक्तं तद् , दृष्ट्वा रौति प्लुतस्वरम् ॥४०७।। हा प्रिये ! दयिते कान्ते ! वल्लभे क्व गताऽधना ।। सरस्वतीति लात्वाऽऽख्यां महविलपतीत्यसौ ॥४०८।। सुभ्र ! त्वं क्व गताऽस्यपास्तमशनं, त्यक्ताः कथा योषितां, दूरादेव निराकृतास्सुरभयस्सद्गन्धमाल्यादयः । मानं मानिनि ! मुञ्च मय्यदयिते, त्वं मे प्रसीदाऽधुना, सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममाऽन्धा दिशः ॥४०९।। [शा.वि.] निरर्थकं जन्म गतं नलिन्या, यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन ॥४१०।। [उपजाति] 20 વિલવઇ આણી મંત્રી હેજ, જિમ જિમ સૂની દેખઇ સેજા હૈ હૈ દૈવ! કિસિઉં તઈ કીઉં, મઝ લોયણા દેઈ અપહરિઉ ૪૧૧ [ચોપાઈ ] ઇણિ પરિ મંત્રી કરઈ વિલાપ, દેખી પરિયણ ધરઈ સંતાપા ઘરણિ મરણ હીઈ જવ ધરઇ, જલ વિણ જલચર જિમ લવલઇ l૪૧૨ા "विंस गयं ASG, मरुमंडल ४२डड। હિંસ સરોવર વલ્લહઉં, પ્રિય માણસ નયણાંહ” I૪૧૩] [ દૂહો ] 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy