________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१८७ हुं ज्ञातमतनुत्राणो, मृतो मद्दयितो रणे ।
तेनेषा प्रेषिता मह्यं, ध्यात्वैवं सा मृतिं गता ॥३६३।। यतः-"गतियुगलकमेकोन्मत्तपुष्पोत्तकरस्य, त्रिनयनतनुसेवा, वाऽथवा भूमिपातः । विमलकुलभवानामङ्गनानां शरीरं,पतिकरकरजो वा,सेवतेसप्तजिह्वः" ॥३६४॥
a [मालिनी] [ ] 5 "शशिना सह याति कौमुदी, सह मेघेन तडिद् विलीयते ।। प्रमदाः पतिवम॑गा इति, प्रतिपन्नं हि विचेतनैरपि" ॥३६५॥ [ प्रबोधिता][ ] जाते तथाविधे कार्येऽनार्ये इत्थमचिन्तयत् ।
किं कृतं हा मयाऽकृत्यं, दुष्पूरोदरपूर्तये ॥३६६।। यतः-"किं किं न कयं को को न पत्थिओ, कह कह न नामियं सीसं। 10
उब्भरउयरस्स कए , किं न कयं, किं न कायव्वं" ॥३६७॥ [ ] करिकण्डूयया यद्वन्निपतेज्जरतीगृहम् ।। तद्वत् कौतुकतो राज्ञो, मत्तो मृत्युं गता च सा ॥३६८।। एवं निज हृदि ध्यायन् , स्वं निन्दन् कर्म चेष्टितम् । धिक् कुर्वन्निजदासत्व-मगमत् सैन्यमात्मनः ॥३६९।। असावाकारितो राज्ञा, तत्प्रेमप्रश्नपूर्वकम् । जगौ सगौरवं दूतस्-तवृत्तान्तं यथास्थितम् ॥३७०।। सरस्वतीमृतिश्रुत्या, राज्ञा चेतसि चिन्तितम् । प्रियावियोगी योगीव, कथं जीवति मन्त्र्यसौ ॥३७१।। रहस्सचिवमाकार्य, नृपोऽतिव्यक्तधीर्जगौ । यद्यहर्याति न श्यामा, श्यामा याति न मे दिनम् ॥३७२।। रात्रिः कल्पशतायते सितरुचेर्वेसा(?)करालीयते, यामो वर्षशतायतेऽप्यहरहो कल्पान्तकालायते । आहारो गरलायते सुवसनं, शस्त्रीयतेऽन्तःपथं, मन्त्रस्तद्विरहे सखे ! समजनिष्टाऽनिष्टमेतज्जगत् ॥३७३।। [शा.वि.] 25 प्रत्युक्तमित्यमात्येन, क्रियते किं मया प्रभो ! । राज्ञोक्तं व्यक्तमावाभ्यां विद्वद्गोष्ठी विधीयते ॥३७४।।
D:\amarata.pm5\3rd proof