________________
१८६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ धृष्टः पार्वे भवति यदि वा, दूरतोऽप्यप्रगल्भः, सेवाधर्मः परमगहनो, योगिनामप्यगम्यः"॥३५१॥[ मन्दा.][ भर्तृ.नी./५८] "भेतव्यं नृपतेस्ततस्सचिवतो, राज्ञस्तथा वल्लभादन्येभ्यश्च भवन्ति येऽस्य भु(भ? )वने लब्धप्रसादा विटाः । दैन्यादुत्तमदर्शने च ललनैः पिण्डाऽर्थमापश्यतः, सेवां लाघवकारिणी कृतधियः स्थाने श्ववृत्तिं विदुः" ॥३५२॥ शा.वि.[ ] नृपेणैवं तमालाप्य विशिष्टः, शिष्टधीधनः । गत्वाऽसौ स्वप्रियाश्लेषं, जगृहे स्वगृहे ततः ॥३५३॥ अस्मिन्नवसरेऽन्येद्युः, सूरसेनो महीपतिः । तयोः प्रेमपरीक्षायै, सैन्यं कृत्वा विनिर्गतः ॥३५४।। भानुस्तत्पृष्ठतः, प्रोक्तो मुक्त्वा कथमपि प्रियाम् । रङ्गत्तुरङ्गमारुह्य, मात्राभ्यधिकशस्त्रवान् ॥३५५।। गत्वा नत्वा नराधीशं, मिलित्वा राजवर्गिणाम् । भोग्ये स्थाने यथायोग्ये, तस्थिवान् नृपसन्निधौ ॥३५६।। निग्रहाऽनुग्रहव्यग्रः, प्रत्यग्रोदग्रविग्रहः । भानुवद् भानुमन्त्रीशो, भासयेत् सैन्यमण्डलम् ॥३५७।। प्रार्थिता मुकुटी तस्य, राज्ञा प्रज्ञावताऽन्यदा । तामुत्तार्य हसित्वा यः, प्रत्तवान् सूरभुभुजे ॥३५८।। तस्मै स्वकोशादानाय्य, स्वापभोग्यां सकौतुकात् । प्रौढां पादघटीमुद्रां प्रददे पृथिवीपतिः ॥३५९॥ ज्ञातुं ततस्तयोः प्रेम, राज्ञा प्रैषि रहश्चरः । स्वमन्त्रिमुकुटीहस्तः, प्रशस्तस्तत्-प्रियागृहे ॥३६०॥ ततस्तेन नतेनाऽसौ, गत्वा दत्त्वा प्रियाकरे । साभिज्ञाना सरस्वत्या दृष्टा स्पष्टधिया तया ॥३६१।। तद्दर्शनेन संभ्राता, चिन्तयेच्छून्यमानसा । जातं किमेतदीदृक्षं, मुकुटी किमिहागता ॥३६२॥
25
१. मुकुटी [दे.] =मोडी-पाघडी । २. पादघटी [दे.] =पाघडी । ३. मुकुटी [दे.] =पाघडी।
D:\amarata.pm5|3rd proof