________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१८५ सरसा च चतुर्दारा, रामाऽऽराममनोहरा । पुरी वाणारसी'त्याख्याऽऽख्याताऽस्ति सरसीसमा ॥३४०।। [युग्मम्] सूरसेननृपस्तत्र, शिवदत्ता प्रिया प्रियः । भानुर्भानूपमो मन्त्री, सन्मार्गश्रीप्रकाशकः ॥३४१॥ सद्वृत्ता सदलङ्कारा, सद्गुणा च सलक्षणा । सरसा सकलाश्लेषा, स्वस्तोकश्लोकसङ्कला ॥३४२॥ प्रशस्तबहुलाऽऽलापा, पुण्यपुण्यप्रभाविनी । सरस्वतीव तस्याऽस्ते, पत्नी नाम्ना सरस्वती ॥३४३।। [युग्मम्] कौमुदीपति-रोहिण्योः, स्व थाप्सरसोरिव । चण्डाशु-च्छाययोर्यद्वत् , यथा धरण-पद्मयोः ॥३४४।। यथा शङ्कर-पार्वत्यो-र्यथा माधव-पद्मयोः । तयोस्तीव्रतरस्नेहो, वरिवर्ति मिथस्तथा ॥३४५।। [युग्मम्] अष्टापदादिक्रीडाभिः, क्रीडन्तौ दम्पती मुदा । स्फारपल्यङ्कसंस्थौ तौ, भुञ्जाते सुखमैहिकम् ॥३४६।। एकदाऽऽकारितो राज्ञा, नाऽऽगतो भानुर्धीसखः । स्वयं कालविलम्बेन, प्राप्तोऽसौ राजवेश्मनि ॥३४७।। सूरसेनावनीपेन, सायं सोऽयं विशिष्टधीः । उपालब्धस्तदा किं त्वं, नाऽऽगतो ? हेतुरत्र कः ? ॥३४८॥ ततः श्रीसूरसेनस्य, प्रत्युक्तं भानुमन्त्रिणा । प्रिया प्रेमवती स्वामिन् ?, स्थातुमीष्टे न मां विना ॥३४९॥
नृपोऽवक्-युवयोर्मा भूत् , कदापि विरहो मिथः ।
'परं सत्यापनीयः स्यात् सेवाधर्मोऽधिकारिणाम्' ॥३५०॥ यतः - "मौनान् मूकः प्रवचनपटुर्वातलो जल्पको वा,
क्षान्त्या भीरुर्यदि न सहते, प्रायशो नाऽभिजातः ।
20
१. प्रसिद्धपाठस्तु 'वातुलः' इति किन्तु नीतिशतकस्य टीकायां 'वातलः' शब्दः स्वीकृतः । अभिधानचिन्तामणौ वातुलो वातलोऽपि स्यादिति हेमचन्द्रः । गूर्जरगिरायामपि 'वायडो' वातरोगी अथवा 'वावदूकः' इति उच्यते ।
D:\amarata.pm5\3rd proof