________________
१८४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ "विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोहिननासिकस्त्वम् ।। भूतेषु तेनेव विमूढ ! योषा,-वपुःषु तत् किं कुरुषेऽभिलाषम्" ॥३३१॥
[उपजाति] [अ.क.१३] "अमेध्यमांसाऽस्रवसात्मकानि, नारीशरीराणि निषेव्यमाणः । 5 इहाऽप्यपत्यद्रविणादिचिन्ता,-तापान् परत्रेति दुर्गतिश्च" ॥३३२॥
[उप.] [अ.क. २।४] रघुकाव्येप्युक्तम् - "रुदता कुत एव सा पुनर्-भवता नानुमृताऽपि लभ्यते ।
परलोकजुषां स्वकर्मभि-र्गतयो भिन्नपथा हि देहिनाम्" ॥३३३॥[ र.वं.८/८५ ] 10 वल्लभासङ्गवार्ताऽपि दुर्लभाऽनुमृत् यस्य ते ।
जीवतः पुनरागत्य, सा कुतोऽपि मिलिष्यति ॥३३४।। कुमारोऽवङ् मुनि, किं मां प्रतारयसि स्फुटम् । किं वा मृतस्य मर्त्यस्य, जीवितं जायते किल ॥३३५।।
असंभाव्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । 15 यथा वानरसङ्गीते, तथा तरति सा शिला ॥३३६।।
सोऽवादीत् तव सत्त्वेन, मिलिष्यति मृताऽपि सा । श्रीभानुसचिवाऽऽख्यानमत्राऽर्थे, श्रुणु भूपते ! ॥३३७।। [श्रीभानुसचिवाऽऽख्यानम् ] तथाहि -
भानुश्च मन्त्री दयिता सरस्वती, मृत्युं गता सा नृपकैतवेन च । 20 गङ्गां गतस्तां पुनरेष लब्धवान्, ‘जीवन् नरो भद्रशतानि पश्यति' ॥३३८॥ [इन्द्र.]
सदा कुवलयश्रीदा, प्रेस्फूर्जत्कमलाश्रिता । स्फुरत्कविकुलाऽऽकीर्णा, सदाऽऽर्यजनमज्जना ॥३३९।।
१ कुवलये भूमिमण्डले श्रियं शोभां, भूमण्डलस्य समृद्धि वा ददाति । सरसीपक्षेकुवलयानि निशाविकाशिनि जलज्ञानि तेषु शोभा दधातीति । २. प्रस्फूर्जन्त्या कमलया-समृद्ध्या, पक्षे-कमलैः आश्रिताः । ३. स्फुरद्भिः कविकुलैः, पक्षे-स्फुरद् कं सुखं येषां ते, तैः, सरसजलवत्तया वयः पक्षिणः, तेषां कुलाः, तैः आकीर्णा । ४. आर्या जनाः परीवाररूपेण एषांआर्यजनमन्तः, ते च जनाः लोकाः यस्यां सा । पक्षे-आर्यजनानां मज्जनं यस्यां सा ।
D:\amarata.pm5\3rd proof