________________
१८२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तस्य हीलयतोऽप्येवं, विभाता सा विभावरी । नमस्कारं नृपो ध्यात्वा, भावनां भावयेदिति ॥३११।। "कति न कति न जाता, भूरि भोगोपभोगाः, कति न कति न जाताः, पुत्र-पौत्रादियोगाः । कति न कति न जाता, बान्धवैर्विप्रयोगाः, जगति तरलरूपे, किं मुदा किं शुचा वा" ॥३१२॥ [ मालिनी][ ] "क्वचिद् वीणानादः, क्वचिदपि च हा हेति रुदितं, क्वचिद् रम्या रामाः, क्वचिदपि च जराजर्जरवपुः ।
क्वचिद् विद्वद्गोष्ठी, क्वचिदपि सुरामत्तकलहो, 10 नजाने संसार: किममृतमयः किं विषमयः?॥३१३॥[शि.रि.] [ भर्तृ० वै.श./८९] "चलं चित्तं चलं वित्तं, चले यौवन-जीविते ।
चलाचलेऽतिसंसारे, धर्म एको हि निश्चलः" ॥३१४॥[ ] "अनित्यानि शरीराणि, विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युः, कर्तव्यो धर्मसंग्रहः" ॥३१५॥[ ] 15 "पुत्रा दारा गृहाणि, गुरुजनसहितो, बन्धुवर्गः प्रियो वा,
माता भ्राता पिता वा, श्वसरकलमिदं. स्फारभोगोपभोगाः । विद्या-विज्ञानरूपं, बहुगुणनिलयं, यौवनं मानयुक्तं, त्यक्त्वा ते यान्ति सर्वे, जनमुतिसमयं( ये), धर्म एकः सहायः" ॥३१६॥[स्र.धा.] "असारे संसारे, कथमपि समासाद्य नृभवं, 20 न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः ।
ब्रूडन् पारावारे प्रबलमपहाय प्रवहणं, स मुख्यो मूर्खाणा,-मुपलमुपलब्धुं प्रयतते" ॥३१७॥ [ शिख.] [ सि.प्र./७] चिताऽऽरोहोद्यतस्सोऽभूद् , भावनां भावयन्निति ! ।
कौबेरीपतिनाऽप्येष वेगादागत्य वारितः ॥३१८।। 25 'ईदृशमबलाकर्म त्वादृशां, युज्यते न हि' ।
राज्ञेति वारितोऽप्येष, न त्यजेद् यावदाऽऽग्रहम् ॥३१९।। १. अपारे सिन्दुरप्रकरे।
D:\amarata.pm5\3rd proof