________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ]
दैवात् तद्विरहे जाते, सञ्जाता त्वं मम प्रिया ।
तथापि न स्यात् सा प्रीतिस्- त्वयि सत्यामपि प्रिये ! ॥ २९८ ॥
घृतं विमुच्य कस्तैलं, सज्जनं दुर्जनं जनम् । त्यक्त्वा चिन्तामणि लोष्टं, कल्पद्धुं कनकद्रुमम् ॥२९९॥
मुक्त्वाऽमृतं विषं को वा, चक्रीवन्तं मतङ्गजम् । सेवेत कः पुमान् धीमां- स्तां भुक्त्वा त्वामहं कथम् ॥३००|| एवं भर्तृगिरोत्पन्न - कोपाटोपारुणेक्षणा । दुष्टा सा रुक्मिणी पत्नी, भर्त्तारमिदमूचिवान् ॥३०१|| अद्याऽपि न श्रुतं तत् किं मत्कृतं पूर्वपौरुषम् ? । स्वीयं तदनु सा तस्य, वृत्तान्तं न्यगदत् स्वयम् ||३०२|| एवं गोष्ठ्यामशिष्टायां, सञ्जातायां तया समम् । मुनिमाकारयामास, रहः स्वर्णरथोऽन्यदा ||३०३|| रुक्मिणीप्रोक्तसम्बन्धं, ज्ञापयामासिवान् मुनिम् । मुनिर्दधे महानन्दं, कलङ्ककोत्तरणात् तदा ||३०४|| ततस्सा कटुकौषध्या, दुःसाधव्याधिवत् प्रिया । निष्काशिता निजस्थानादित्युक्त्वा स्वर्णभूभुजा ||३०५ || 'निस्त्रपे ! निःकृपे ! क्रूरे !, चण्डे ! दु:पापकारिणि ? । अहं भवत्या स्वात्मा च निक्षिप्तो नरकावटे ॥ ३०६ ॥
64
[ १८१
D:\amarata.pm5\3rd proof
5
10
'कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या ।
11
कन्याबहुत्वं च दरिद्रिता च, षट् जीवलोके नरका भवन्ति ॥३०७॥ [ उप. ] [ ] 20 "भाठ घोरी, होठ गुर, डूई जारुं नीर ।
गाम डुठाडुर, घरशिडुघरशि, पंथ ६४ सरीर” ॥३०८॥ [ द्दूहो ][ ]
हा हा गुणवती याऽऽसीद्, ऋषिदत्ता महासती ।
कथाशेषीकृता साऽपि, धिक् त्वामशुभकारिणीम् ॥३०९ ||
लोकद्वयविरुद्धं च, कुर्वत्याऽऽत्महितेप्सया । भवत्याऽकृत्यकारिण्या, स्वकुलं कलुषीकृतम् ॥३१०॥
15
25