________________
१८०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ प्रत्याहुरुग्रभोगाद्याः, सचिवा अपि तं मुनिम् ।। मुने ! मदी[ऽस्म ?]शो यत् प्राह, यूयं कुरुत तद्वचः ॥२८५।। अत्यादृत्या त्वममात्यानां, मुनिर्मेने नृपाऽऽग्रहम् । अभूददमुयङ् भूपो, रविरस्तङ्गतस्ततः ॥२८६॥ तौ कुमार-मुनी सान्ध्यविधिमाधाय तद्दिने । शयितावेकपल्यङ्के, सस्नेहं तां विभावरीम् ॥२८७।। नृपः प्रयाणं चेक्रीयाञ्चक्रे चक्रेण संयुतः । तूर्णं स्वर्णरथो राजा, कौबेर्यर्थ्यणमागमत् ॥२८८।। इतश्च सपरीवारो, राजा श्रीसुरसुन्दरः । सन्मुखं जग्मिास्तस्य, नृपपुत्रस्य सोत्सवम् ॥२८९।। श्रीकौबेर्यां महापुरू, कारयामासिवान् नृपः । प्रवेशोत्सवमातोद्यनिनादैगर्जदम्बरम् ॥२९०॥ चन्द्रोदयसहक्चन्द्रोदयमण्डनमण्डितम् । स्तम्भप्रशस्तविन्यस्त-नृत्यत्पाञ्चालिकाङ्कितम् ॥२९१।। प्रत्यग्रपाणिग्रहण-सामग्रीसम्भृतं गृहम् । कुमारस्समलचक्रे, सच्चक्रेण परीवृतः ॥२९२॥ [युग्मम्] विशिष्टगणकादिष्टप्रकृष्टदिवसेसु(षु) ताम् । रुक्मिणी पर्यणैषीत् , कुमारः स्फारवेषभृत् ॥२९३।। कुमारमन्यदा वास-गृहस्थं रुक्मिणी जगौ । कीदृक्षा ऋषिदत्ता साऽभवद्वल्लभ ! वल्लभा ॥२९४|| तद्वचः श्रुतिसम्भूतशङ्कासङ्कीर्णमानसः । ततोऽसावूचिवान्-देवि ! तस्याः किं प्रोच्यते मया ॥२९५।। तिलोत्तमा तिलप्राया, रम्भाऽरं भासते न हि । मेनका रेणकारूपा. यदरूपाग्रे भवत्यहो ॥२९६॥ विशुद्धशीलश्रृङ्गार-सुन्दराऽऽकारभासुरा । मन्मनमोहिनी सा किं, गेहिनी वर्ण्यते मया ॥२९७।।
D:\amarata.pm5|3rd proof