SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ १८] [ऋषिदत्ताचरित्रसंग्रहः ॥ पूर्वं सत्कृत्य सत्कृत्यैः, कृतज्ञोऽसौ कृताञ्जलिः । कुमारो मुनिमप्राक्षीत् प्राप्तोऽस्मिन् कानने कदा ॥२६२।। अथाऽवादीन्मुनिर्भूपं, गिरा मधुरया रयात् । राजन्नत्राश्रमे रम्ये, हरिषेणः पुराऽभवत् ॥२६३।। तस्यर्षिदत्ता सत्पुत्री, सञ्जाता विनयान्विता । कुमार: कोप्यगात् वेगात् प्रच्छन्नं परिणीय ताम् ।।२६४।। बृहद्भानुप्रवेशेन, देवत्वं प्राप सत्क्रियः । हर्षेण हरिषेणाऽऽख्यतापसस्तत्पिता प्रभो ! ॥२६५।। तस्मिन्नवसरे देव ! भ्रान्त्वा भ्रान्त्वा महाभुवम् । 10 विजने विपिनेऽमुष्मिन्नस्म्यस्मि समुपस्थितः ॥२६६।। श्रीनाभेयं नमस्कुर्वे, मरुदेवातनूद्भवम् । सर्वातिशयसम्पूर्णं, पूर्णेप्सितमनोरथम् ॥२६७।। "मौलिं स्वस्य जिनेश्वरस्य नमनात् , कर्णौ गुणाऽऽकर्णनान् नेत्रे रूपनिरूपणेन रसना, स्तोत्रक्रमोपक्रमैः, 15 पाणी पूजनकर्मकर्मठतया, चैत्यागमेन क्रमौ, चित्तं संस्मरणात् करोमि विमलं, श्रीआदितीर्थेशितुः" ॥२६८॥[शा.वि.] ममाऽत्र तिष्ठतः शिष्ट ! पञ्चवत्सर्यपूर्यत । साम्प्रतं सफलीभूतः सखे ! सद्गुणिसङ्गतः ॥२६९।। यतः - नैषधे नलो हंसं प्रति- [ ] "भृशतापमृतामयाभवान् , मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः" ॥२७०॥[ प्रबो.] [ नैष.२/५३] सितोपलायुतं क्षीरं, भोज्यं प्राज्याऽऽज्यमिश्रितम् । श्रवत्सुधाशशिज्योत्स्ना, त्वत्प्रीतिर्मेभवेत् तथा ॥२७१।। कुमारः प्रत्यवोचत्तं-मुने ! त्वां पश्यतो मम । 25 न तृप्यति कथं दृष्टि-भवदर्शनलालसा ॥२७२॥ यतः- अदृष्टे दर्शनोत्कण्ठा, दृष्टे विच्छेदभीरुता। नाऽदृष्टेन न दृष्टेन, भवता लभ्यते सुखम् ॥२७३॥[ ] D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy