________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ]
[ १७७
सोऽयं विहार इह सज्जनदत्तरङ्गः, कल्याणपूर्णकलशोज्ज्वलतुङ्गशृङ्गः । माद्यन्महोदयरमारमणीनिहारः, संसारवारिनिधितारणकर्णधारः ॥ २५० ॥ [व.ति.] सोऽयं श्री हरिषेणस्याऽऽश्रमो विश्रामकारणम् ।
तदिदं स्तूपरूपं च, गोष्ठीस्थानं तदेव हि ॥२५१॥ एते ते सफलाः वृक्षाः, क्रीडोद्यानं मनोरमम् । क्रीडासरस्तदेतश्च, कन्याऽऽन्दोलस्स एव हि ॥ २५२॥ विद्यते प्राक्तनं सर्वं, विफलं तां कनीं विना । चिन्तयेदित्यसौ भूपो, यावदश्रुप्लुतेक्षणः ॥२५३॥ कुतश्चिदागतोऽकस्मात्, तावत् कोऽपि महामुनिः । दधानो वल्कलं वासः, प्रधानः स्वक्षमालया ॥ २५४ ॥ राजन् ! स्वागतमित्युक्तवन्तं तमनमन्नृपः । दत्वाऽर्घाञ्जलिमेषोऽस्मै, ततः पुष्पाण्युपानयत् ॥२५५॥ ध्वनन्मधुकरश्रेणि-झङ्कारारावसंकुलाम् । कण्ठमारोपयामास, सोऽस्य पुष्पस्रजं मुदा ॥ २५६॥ असौ निरीक्षते स्म स्व-प्रियाविभ्रमया दृशा । तपोध्यानसमालीनं, पुनःपुनरमुं मुनिम् ॥२५७॥ मुनिर्विचिन्त्यत्येवंकिमसौ मम वल्लभः । रुक्मिणीं परिणेतुं तां प्राचलत् प्रबलाशयः ॥२५८॥ कुमारः श्रीजिनं नत्वा, तत्त्वाज्ञस्सत्ववान्नृपः । तं मुनिं सार्धमाकार्य, स्वकीयोत्तारकेऽगमत् ॥ २५९॥ यथोचितासनासीनं, भोजयामासिवान् मुनिम् । पक्वान्नप्राज्यभोज्येन, महाभक्त्या महाशयः ॥ २६० ॥ स्वादिमं स्वादयामास, नागवल्लीदलादिकम् । महाग्रहेणाऽभ्ययैनं, नृपो वस्त्राण्यदात् तदा ॥२६१||
१. उत्तारक[दे.]=उतारो । २. नागरवेलपत्रम् ।
D:\amarata.pm5\ 3rd proof
5
10
15
20