SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १७६] इति दूतवचः श्रुत्वा तत्त्वावगतमानसः । अदो हेमरथो राजा, प्रत्यवादीत् सुतं प्रति ॥ २३७॥ हे वत्साऽतुच्छवात्सल्य ! खिद्यसेऽहर्निशम् किमु । 'यतः पुराकृतं कर्म, सर्वेषामपि दुस्तरम्' ॥२३८॥ 5 यतः - "तं नऽत्थि घरं, तं न त्थि, राउलं देउलं पि तं न त्थि । जत्थ अकारणकुविया, दो तिन्नि जणा न दीसंति" ॥२३९॥[ ] "विहिविलसियाण खलभासियाण, तह कूडमहिलचरियाण । मणवंछियाण पारं, जाणइ, जइ होइ सव्वन्नू" ॥२४०॥[ ] 10 “ आरोहतु गिरिशिखरं०. ॥२४९॥ [ ] 44 'कस्य स्यान्न स्खलितं, पूर्णास्सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ॥२४२॥ [ ] "कुमुदवनमपश्रि, श्रीमदम्भोजषण्डं, त्यजति मदमुलूकः, प्रीतिमांश्चक्रवाकः । 15 उदयमहिमरश्मिर्यातिशीतांशुरस्तं, हतविधिविलसितानां, ही विचित्रो विपाकः”॥२४३॥ [ मालिनी. ] [ माघ. ११/६४] 'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि, रामः प्रव्रजितो वने" ॥२४४॥[ ] 44 [ ऋषिदत्ताचरित्रसंग्रहः ॥ 44 'प्रायः पुमांसः कुटिलस्वभावाः, रण्डास्तु कौटिल्यकलाकरण्डाः । 20 ताताद्ययाचे कथमन्यथाऽस्मिन् काले वरंके गयनं दनेयम् [ ? ] ॥२४५॥ [ उप. ] " 44 'कत्थइ जीवो बलिओ, ०[ कत्थइ कम्माइ हुंति बलियाई । जम्हा णंता सिद्धा, चिट्टं ति भवंमि वि अनंता ] ॥ २४६ ॥ [ श्रा.प्र./१०१] तत् त्वं मदुपरोधेन, दुहितुः सुन्दरेशितुः । वत्स ! वच्छल ! गच्छ त्वं पाणिपीडनहेतवे ॥ २४७॥ 25 यतः- “तद् गृहं यत्र वनिता, वृक्षमूलेऽपि तिष्ठति । प्रासादोऽपि तया हीनो, ह्यरण्यसदृशो भवेत्" ॥२४८॥ [ ] गणकोपदिष्टदिवसे, परिणयनकृते चचाल भूपसुतः । पूर्वं परिचितमार्गं, निरीक्ष्य तं चिन्तयत्येवम् ॥२४९॥ [आर्या ] D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy