________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१७५ निश्चित्येत्येत्यरण्यान्तः, समानयति सौषधीम् । तत्क्षणात् तत्प्रभावेन, नरत्वं सा समाश्रिता ॥२२५।। मुनिवेषधरा नारी, सुखेनाऽऽरामसंस्थिता । शुष्ककन्द-फलाहारा, शुभध्यानैककर्मठा ॥२२६।। हर्षेण हरिषेणेन कारिते जिनमन्दिरे । सुस्नाता स्नपयेदेवं, मोदकैः परमोदकैः ॥२२७।। सहस्र-शतपत्रैश्च, कमलैः कौमलैः फलैः । अवन्ध्यं सा त्रिसन्ध्यं च, पितृवत् पूजयेज्जिनम् ॥२२८।। इतश्च तस्या दयितो न्याय्ये राज्ये सति स्फुटम् ।। शून्यान्त:करणः स्वर्णरथोऽभूत् तां प्रियां विना ॥२२९।। सुलसाऽसौ जितम्मन्या, कौबेरीनगरीपतेः । गत्वा प्रमोदयामास, रुक्मिणीनाम नन्दिनीम् ॥२३०॥ तया स्वागतमित्युक्त्वा, सत्कृता भोजनादिभिः ।
सद्योऽवद्यविधौ दक्षा, पूज्या राजकुलेषु सा ॥२३१॥ यतः-"भ्रातः ! किं चलितोऽसि ?, यामि कटकं, किं तत्र सेवाऽऽशया ?, 15
कस्सेव्यो नृपतिः ? कथं निजगुणैः ?, के ते गुणा ये सताम् । किं तैरत्र निरर्थकं ? व्रज गृहं, किं न श्रुतं ? यत्त्वया, पूज्यन्ते शठ-मत्सरा व्यसनिनः,कर्णेजपास्सेवकाः"॥२३२॥[शा.वि.][] "भ७दीयासमोट ६४, मंगल पांड। स४४ मा भेदा436, वध्यामा ५is" ॥२३॥ [ ] 20 श्रीसुन्दरमहीशेन, दूतो हेमरथं प्रति । प्रेषितोऽथ प्रहर्षेण, प्राप्तः श्रीरथमर्दने ॥२३४॥ गत्वा विज्ञपयामास, चरो मध्येसभं प्रभुम् । तवैवं देव ! मत्स्वामी, विज्ञप्ति तन्तनीत्यसौ ॥२३५।। त्वत्कुमारोऽत्र नायातस्तत्कि कारणमुच्यताम् ? । मत्पुत्री परिणेतुं त्वं, कुमारं प्रेषय प्रभो ! ॥२३६।।
25
D:\amarata.pm5\3rd proof