________________
१७४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ कृत्वा विलापान् बहुधा, सुमुखी दक्षिणामुखी । पित्राश्रमं हृदि ध्यात्वा, सा चचाल शनैः शनैः ॥२१२॥ यस्मिन् समागता मार्गे, परिणीता सती सती । बाल्ये स्वाऽऽरोपितैरेतैः, प्ररूढः प्रौढभूरुहै: ॥२१३।। अन्यैर्धान्यैरभिज्ञातैस्-तया स्वधि गताऽध्वना । संप्राप्तं क्रमशस्तस्मिन्नाश्रमे विगतश्रमे ॥२१४।। सद्पं स्वपितृस्तूपं, ऋषिदत्ता निरीक्ष्य तम् । मूच्छिता पतिता पृथ्व्यां सा रोदति भृशं भृशम् ॥२१५।। हे तात ! नेतरेषाऽस्मि मिलितुं त्वामुपस्थिता । क्व गतोऽसि त्वमागच्छ, दर्शनं दर्शयाऽद्य मे ॥२१६।। हे तात ! दुःखिनी दीनामेनामेकाकिनी कनीम् । अत्राणां करुणां कृत्वा, स्वाशयाऽऽश्वासयात्मना ॥२१७।। त्वां विनाऽस्मिन् महारण्ये, कस्याग्रे पूत्करोम्यहम् । किं करोमि क्व यामीति, सती विलपती सती ॥२१८।। कुर्वन्ती शोकमस्तोकं, वसति प्राग्निजोटजे । सत्रपा सकृपा शान्ता, तथा शरणवर्जिता ॥२१९।। तत्रस्था चिन्तयेदेवं, वदान्या साऽन्यदा हृदि ।
शीलरत्ननिधिस्साक्षाद् , रक्षणीयः कथं मया ॥२२०।। यतः- "न२ पाप नारीत, दाग सिंह।
આગઈ એ મધ સાંસહિઉં, મુહિ ઉપમા મયંક” ૨૨૧|| "माय जाधव पडन, भोटी पीड२ डि।
જસ કારણથી પરિહરઇ, કચ્ચન મૂકઈ કેડિ” પર ૨૨ા "टेसन सालिरी, पाप बांध्या।
ઋષિદત્તા તે ઈમ ભણઈ, તે કિમ છૂરાં છેહ” ||૨૨૩/ हुं ज्ञातमत्र मत्पित्रा, पूर्वमेकौषधी मम । प्रोक्ताऽस्ति यत्प्रभावाच्च, नारी नव्यनरो भवेत् ॥२२४।।
25
D:\amarata.pm5\3rd proof