________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१७३ एवं विचिन्त्य सर्वेऽपि, प्रचण्डदण्डपाशिकाः । त्रपावन्तः कृपावन्तो, व्यावृत्य स्वपुरं गताः ॥२०१।। शीतवातसमायोगात् , तत्र सन्ध्याक्षणे क्षणात् । सावधानाऽभवद्भव्या, प्राच्यपुण्यप्रभावतः ॥२०२।। स्वं घातकानपश्यन्ती, पश्यन्ती प्रेतभूमिकाम् । मृगीव वागुराभ्रष्टा, सा नष्टा जीविताशया ॥२०३।। दूरं गत्वा महासत्वा, विपिने निर्जने ततः । हा तात ! तात ! तातेति, साऽरुदत् करुणस्वरम् ॥२०४।। "निदाघे दाघातस्-तरलतरतृष्णातरलितः, सरः पूर्णं दृष्ट्वा, त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्-तटनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं, द्वयमपि विनष्टं विधिवशात्" ॥२०५॥ [ शिखरिणी][] नि:कृत्रिमनिजाऽपत्याऽन्त्यन्तवात्सल्य ! हे पितः । एकशस्त्वं समागत्य, देहि हस्तावलम्बनम् ॥२०६।। रे जीव ! भवता पूर्व-भवे किं दुष्कृतं कृतम् । यन्मे निरपराधायाः, कलङ्कः प्रददे तया ॥२०७।। ताताऽहं दुर्मतिर्जाता, प्रोज्झितस्त्वं मया च यत् । प्रादुर्बोभूयते भूयो, दु:खं मम किमन्यथा ॥२०८।। मति ५७६ संम२६०...................।
.....॥२०४ा [] सा सा संपद्यते बुद्धिः, सा मतिः सा च भावना ।
सहायास्तादृशा एव, यादृशी भवितव्यता ॥२१०॥ नैषधेऽपि दमयन्ती चन्द्रं प्रति"असमये मतिरुन्मिषति ध्रुवं, करगतैव गता यदियं कुहूः । पुनरुपैति निरुध्य निवास्यते, सखि ! मुखं न विधोः पुनरीक्ष्यते ॥२११॥ 25
[ द्रुतविलम्बित ] [ नैष. ४/५७]
..........
D:\amarata.pm5\3rd proof