________________
5
10
15
20
25
१७२]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
पक्षिणोऽप्यरुदन् किं वा, प्रदोषकरुणस्वरम् । विनाशं दुर्दशावासं, तस्या द्रष्टुमनीश्वराः ॥१८८॥ वृक्षैस्सङ्कुचितं शोकात्, वल्लीभिस्संवृतं किमु । सन्ध्यामिश्रि(श्र) तमिस्रेण, प्रसृतं सर्वतस्तः ॥ १८९॥ " इतश्चैकेन तन्मध्यात् करे कृत्वा कृपाणिकाम् । ऋषिदत्तां प्रति प्रोक्तं, शान्तस्वान्तवतीं सतीम् ॥ १९०॥ अरे ! क्रूरे ! महापापे ! स्मर त्वं किञ्चिदीप्सितम् । कुलक्रमागतं ध्यानं दैवतं शुद्धचेतसा ॥१९१॥ पठ पञ्च नमस्कारं, सत्यङ्कारं शिवश्रियः । आराधनां सुखाधानं विधेहि विधिनाऽधुना ॥ १९२॥
सिद्धाऽर्हत्साधुधर्माणां, शरण्यं शरणं श्रय । सुव्रतेषु व्रतोच्चारं कुरु त्वं पुण्यसञ्चयम्" ॥१९३॥। [अर्थतश्चतुर्भिः कुलकम्] अस्मद्भूपोपदेशेन त्वं नाऽसि ऋषिनन्दिनि ! | आलापिता सा तैरैवमतनोद् धर्मसाधनाम् ॥१९४॥ ततश्चारभटः कोऽपि, समाकृष्य कृपाणिकाम् । विद्युद्विलसितोद्यातां यावत् तां हन्तुमिच्छति ॥ १९५॥ ऋषिदत्ता तदाऽऽतङ्ककम्प्यमानतनुर्लता । तृष्णाशुष्काऽऽननाऽम्भोजा, तपसा दुर्बलाऽबला ॥१९६॥ विगलज्जीविताशंसा, सुजनादिप्रशंसिता । निरालम्बा निराधारा, निराशा शून्यमानसा ॥१९७॥ निर्देवता च निर्नाथा, सनाथा धर्मकर्मभिः । तावदेवंविधा पृथ्वी-मण्डले मूच्छिताऽपतत् ॥१९८॥ [चतुर्भिः कुलकम्]
मूर्च्छावस्थां गतश्वासां, ततस्तां प्रेक्ष्य दण्डिभिः । तदा विचिन्तितं चित्ते, निःकृपैरपि सकृपैः ॥ १९९॥
चर्वणं चर्वितस्येव, भाषितं लिखितस्य किम् । मृतस्य मारणं किं वा, मुषितस्य च निग्रहः ॥ २००॥ १. शरीरम् ।
D:\amarata.pm5\ 3rd proof