SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] नृपस्तानेवमाचख्यौ -पुरेऽस्मिन् पापिनीमिमां । भ्रामयित्वा श्मशाने च, नीत्वा घातयत क्षणात् ॥ १७६ ॥ इति श्रुत्वा कुमारः स्व - घातं कुर्वन् महीभुजा । निषिद्धः स्थापितो बद्ध्वा सुन्दरे निजमन्दिरे ॥ १७७॥ अथ सप्तशिखाबद्ध-श्रीफलस्फारकुन्तलाम् । लिम्बपत्रमहामालां, कण्ठस्थकुटकण्टकाम् ॥१७८॥ अग्रसञ्चारिविस्तारिखरस्वरकाहलाम् । शिरोजगुच्छलध्वस्ति, क्वणत्क्वणितमेखलाम् ॥१७९॥ इतस्ततो भ्रमद्भूरि- भिल्लपामरवेष्टिताम् । पुरोनृत्यद्हसद्भण्डा-ऽस्तोकपूर्लोकसंश्रिताम् ॥१८०॥ शाणीशकलनेपथ्यां, लघुलोलत्पटोद्भटाम् । पुरसद्मक्षरत्क्षार-क्षालदुष्पङ्कप‌ङ्किलाम् ॥१८१ ॥ उद्दण्डदण्डविधृत-च्छियरच्छत्रविस्तृताम् । जीर्णसम्मार्जनीखण्ड-शेखरस्फारविग्रहाम् ॥१८२॥ पुरो डमडमद्रङ्गत्-द्रङ्गश्रृङ्गकडिण्डिमाम् । चूर्णचित्रितनिश्शेषाऽलीककृष्णललामकाम् ॥१८३॥ उच्चैरुच्चैर्मिलन्म्लेच्छ-नीचपातितबुम्बिकाम् । स्थाने स्थाने महास्वान - हस्यमानाऽनैकनामकाम् ॥१८४॥ खरारूढां नृपाऽऽदेशान्निःशूकदण्डपाशिकाः । पुरान्तर्भ्रमयामासु, ऋषिदत्ताभिधां वधूम् ॥१८५॥ [अष्टभिः कुलकम्] हाहारवं प्रकुर्वत्सु, सत्सु पौरजनेषु च । श्मशाने तां नयन्ति स्म, निःकृपा दण्डपाशिकाः ॥ १८६॥ दुष्टां कष्टदशां तस्या, निरीक्षितुमनीश्वरः । सत्त्ववत्या महासत्या, रविरस्तङ्गतः किमु ? ॥ १८७॥ १. शणवस्त्रम् । २. छियर्[दे.]=सूर्प । ३. बुंबिका[दे.] बूंब-बूमबराडा | [ १७१ D:\amarata.pm5\3rd proof 5 10 15 20
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy