SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १७० ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ माण्डव्योऽपि च शूलकीलितवपुर्भिक्षाभुजः पाण्डवाः, नीता येन रसातलं बलिरसौ तस्मै नमः कर्मणे" ॥१६६॥ [ शा.वि. ][ ] " पिता भम्भासारो मगधविषये च परमा ऽर्हतां सीमा वीरस्त्रिभुवनगुरुर्यस्य सुगुरुः । व्रतं त्यक्त्वाऽयासीत् सपदि गणिकायाञ्च सदने, स नन्दीषेणाख्योऽप्यहह विषमा कर्म गतयः " ॥ १६७॥ [ शि.रि. ] [] 'द्रौपद्या वचनेन केचकशतं, निर्मूलमुन्मूलितम्, सीतासक्तमनास्त्रिलोकविजयी, प्राप्तो वधं रावणः । सुग्रीवस्य विहाय मोहमतुलं वाली हतस्तारया, प्रायस्स्त्रीवचनप्रपञ्चवशतो लोकः क्षयं यास्यति ॥ १६८ ॥ [ शा.वि. ][ ] पश्चिमायां दिशायां, "उदयति यदि भानुः, प्रचलति यदि मेरुः, शीततां याति वह्निः । विकसति यदि पद्मं, पर्वताग्रे शिलायां, न चलति विधिवश्या भाविनी कर्मरेखा" ॥१६९ ॥ [ मालिनी ] [] 44 કાલા કર્મ ન રુસીઇ, અધિક ન કીજઇ સોસ । सहिए|उँ सालई खापा, हैव न ही ४ई होस” ॥ १७० ॥ [ दूहो ][ ] आलापिताऽथ सा तेन, किं रोदिषि बहु प्रिये ! । किं कुर्वे कस्य वा दुःख - कथां ते श्रावयाम्यहम् ॥१७१॥ यतः- “जो न हु दुक्खं पत्तो, जो न हु दुक्खस्स फेडणसमत्थो । " जो दुहि दुहिओ, न हु तस्स कहिज्जए दुक्खं ' ॥१७२॥[ आर्या. ][ ] कल्येतनेऽह्नि भूपाग्रे, स्वप्नश्रावणकैतवात् । योगिन्या द्वेषकारिण्या, राक्षसी त्वं निवेदिता ॥ १७३॥ विभातेऽद्य तथाऽवस्था, चरैस्त्वं प्रविलोकिता । भविष्यत्यग्रतो यत् ते, तज्जानीमो वयं न हि ॥१७४॥ अत्राऽन्तरे हेमरथः स्वयमाकृष्य कुन्तलैः । दुर्दण्डपाशकानां ता-मर्पयामास निः कृपः ॥ १७५ ॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy