________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ]
तथा सुलसयाऽत्यन्तं, तस्यां तस्यां तथैव च । ऋषिदत्तामुखं, रक्ती-कृतं मुक्तं नरामिषम् ॥१५४॥ राज्ञा हेमरथेनाऽथ, प्रेषिताः प्रेष्यका रहः । योगिन्युक्तस्वरूपस्य प्रविलोकनहेतवे ॥१५५॥ प्रगे दृष्ट्वा स्वरूपं तं चरै राज्ञो निवेदितम् । ततः कोपारुणो राजा, स्वं कुमारमरंरणीत् ॥१५६॥
त्वं क्रूरचरितामेनां, जानन्नपि निशाचरीम् । कथं स्थापयसे, दूराद् याहि रे राक्षसीपते ! || १५७।। मा दर्शय मुखं मे त्वं, मद्द्द्शोः परतो भव । कलङ्कितं कलङ्किन्याऽनया में निर्मलं कुलम् ॥ १५८॥ कामं कुलकलङ्काय, कुलजाताऽपि कामिनी । श्रृङ्खला कनकोत्पन्ना, बन्धनायैव केवलम् ॥१५९॥ कुमारः स्वजनाधारः, स्वाऽलीकस्थापिताञ्जलिः । नृपं विज्ञपयामास-देवेदं सर्वथा वृथा ||१६०|| मा कुरुष्व मयि क्रोधं, त्वं प्रसीद दयानिधे ! । नृपतिस्तमऽथोऽवादीत्, तत् सर्वं त्वं निभालय ॥१६१॥ कुमारो दुःखितो दीनो, ययौ यावद् गृहं निजं । तावद् वामकरन्यस्त-कपोलां पश्यति स्म ताम् ॥१६२॥ तां कीदृशीम् -
-
यतः
मुक्तादाम त्रोटयन्तीं सुदुःखात्, वक्षः स्वीयं ताडयन्तीं कराभ्याम् । स्वाङ्गोपाङ्गान् मोटयन्तीं विमानात्, दुःखावेशाद् भूमिपीठे लुठन्तीम् ॥१६३॥ [शालिनी] निन्दन्तीमात्मना चीर्णं, पूर्वकर्मविजृम्भितम् ।
रुदन्तीं विलपन्तीं च, ध्यायन्तीमिति चेतसि ॥१६४॥ [ त्रिभिः कुलकम् ]
"सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं ।
अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" ॥१६५॥ [ सं.सि./११८ ]
“रामो येन विडम्बितो वनगतश्चन्द्रः कलङ्कीकृतः, क्षारश्चाम्बुनिधिः, फणी च सविषस्तद्वत् कपाली हरः ।
[ १६९
D:\amarata.pm5\3rd proof
5
10
15
20
25