________________
5
10
15
20
25
१६८ ]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
-
परं विदन्ति नो किञ्चित् सम्यगालोचितं च तैः । भूयस्सम्भूय राज्ञोऽग्रे, ज्ञापितं स्वाऽज्ञतादिकम् ॥१४१॥ एते यतो न जानन्ति, मर्त्यमृत्युनिबन्धनम् । ततः कोपान्नृपो ब्रूते, निर्वास्यतां समे पुरात् ॥१४२॥ नृपाभिज्ञयाऽनभिज्ञास्ते, कोपाटोपाद्भटैर्भटैः । मुक्त्वा जैनमुनीनन्ये, सर्वे निर्वासिताः बहिः ॥१४३॥ इतश्च – अवद्यकारिकाऽन्येद्युः, सुलसा नाम योगिनी । राज्ञस्सदस्समागत्य, राजानं सा व्यजिज्ञपत् ॥१४४॥ हे हेमरथभूपाल ! मया स्वप्नोऽद्य वीक्षितः । आगत्य मध्यरात्रे मे, प्रोक्तं देवेन केनचित् ॥१४५॥ नाना पाखण्डिनस्सर्वान् नृपो निष्काशयिष्यति । तेनोक्तं च त्वया गत्वा, राज्ञोऽग्रे ज्ञाप्यतामिति ॥१४६॥ यत् ते कुमारेणाऽनेन याऽऽनीता वल्लभा वनात् । सा नूनं राक्षसी ज्ञेया, तस्या एतच्च चेष्टितम् ॥१४७॥ पाखण्डिनां पराभूर्ति, मा कुरुष्व महीपते ! । 'कूट्यन्ते सैरिभास्यानि, केदारानत्ति शूकरः ' ॥१४८॥ मदीये वचने राजन् ! संशयस्ते भवेद् यदि । तदद्य मध्यरात्रे वा, स्वयं गत्वा विलोकय ॥१४९॥
"
तयैवमुक्ते राज्ञोक्तं- हुं, करिष्ये निरीक्षणम् । इत्युक्त्वा तद्वचो धृत्वा, योगिनी सा विसर्जिता ॥ १५०॥ अथ हेमरथो भूपः, स्वाङ्गपीडादिकैतवात् । अशाययन्निजाऽभ्यर्णे, पुत्रं स्वर्णरथं स्वकम् ॥१५१॥ अपनिद्रः कुमारोऽसौ, सुप्तः स्वपितुः सन्निधौ । चिन्तयेदिति हा दोषः, पत्न्याः प्रादुर्भविष्यति ॥१५२॥ यतः - एकतः पितुरादेशो, लङ्घने युज्यते न मे ।
अन्यतो दयिता दोष, 'इतो व्याघ्र इतस्तटी' ॥१५३॥ १. खाय जगलो ने कूटाय भगलो इति गूजराती कहेवत ।
D:\amarata.pm5\3rd proof