________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१६७ उक्तं च -"शशिनि खलु कलङ्कः, कण्टकाः पद्मनाले,
उदधिजलमपेयं, पण्डिते निर्धनत्वम् । युवतिजनवियोगो, दुर्भगत्वं सुरूपे, धनवति कृपणत्वं, रत्नदोषी कृतान्तः" ॥१२९॥ [ मालिनी ] [ ] 'मदुक्ते न प्रतीतिश्चेत् , तदा त्वं निगृहाण माम् । एतत् प्रियावचः श्रुत्वा, स एवं तामबम्भणीत् ॥१३०॥ प्रिये ! त्वमसि निर्दोषा, खेदं मनसि मा कथाः । चिन्तां काञ्चिन्न कुर्वीथा, इत्याश्वास्य स्ववल्लभाम् ॥१३१।। निराकरोति तन्मांसं, प्रक्षालयति तन्मुखम् । स्वर्णालङ्कृतिपूर्णां तां, स्वहस्तेन तनोत्यसौ ॥१३२।। एवं कलङ्ककालुष्यं, सा कुर्याद् विद्ययाऽन्वहम् । प्रातर्भर्ता तथा तस्याः, स्नेहात् तं विनिगृहति ॥१३३।। ततोऽमात्यानभाषिष्ट, राजा हेमरथोऽन्यदा । नित्यशो मार्यतेऽमर्यो, मत्पुरे हेतुरत्र कः ॥१३४।। 'राजन् ! वयं न जानीमस्'-तैरुक्तमिति भूपतेः । मीयते त्वनुमानेन, चल्लिः स्यान्मानवी न हि ॥१३५।। कोपाटोपान्नृपेणोक्तम्-तर्हि पाखण्डिनो द्विजाः । बौद्धाः नैयायिकाः साङ्ख्याः , जैनाः वैशेषिकास्तथा ॥१३६।। ज्योतिष्काश्च निमित्तज्ञाः, मन्त्र-तन्त्रकलाविदः । योगिनो भोगिनोऽप्यत्र, तपोधन्यास्तपोधनाः ॥१३७।। वास्तुज्ञाः विश्वकर्माणः, लक्षणज्ञा विचक्षणाः । जैमिनीया बृहत्प्राज्ञाः, आकार्यन्तां समेऽप्यमी ॥१३८।। [त्रिभिःकुलकम्] एवं राज्ञो गिरां प्राज्ञा, जना हूतास्समागताः । पृष्टा स्पष्टं प्रगे सर्वे, राज्ञा पुम्मृतिकारणम् ॥१३९।। मिथो विचारयन्त्येते, चतुराश्चतुरास्यवत् । पृथग् पृथग् मनीषाभिविद्ययाऽप्यनवद्यया ॥१४०।।
20
१. चल्लि [दे.] = राक्षसी । २. ब्रह्मवत् ।
D:\amarata.pm5|3rd proof