________________
१६६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तथाविधां विचिन्त्यैनां, रुधिराक्ताऽऽननामिति । असंभाव्यं विभाव्यैतद्-भव्यैर्वक्तुं न पार्यते ॥११७।। शास्त्रेऽतिरूपं यदहो, स्वापायबहुलं भवेत् ।
तत् सत्यमेवमादिष्टं, विशिष्टं स्पष्टदृष्टिभिः ॥११८।। 5 यतः- "अतिदानाद् बलिर्बद्धो, अतिगर्वेण रावणः ।
अतिरूपाद् हृता सीता, अति सर्वत्र वर्जयेत्" ॥११९॥[ ] मनोविकल्पसङ्कल्पान् कल्पयित्वा बहूनयम् । प्रियां प्रबोधयत्येवं, देवि ! जागृहि जागृहि ॥१२०।। ततस्सुप्तोत्थितां तां स, प्राह प्राणप्रियां प्रिये ! । पृच्छामि भवतीं देवि !, यदि त्वं नैव रुष्यति ॥१२१॥ हरिषेणकुलोत्पन्ना, सती त्वं राक्षसी कथम् । साऽपि भीताऽभणद्-देव ! किमेवं जल्पते त्वया ॥१२२।। प्रत्युवाच कुमारस्तां, रात्रावद्य प्रिये ! किमु । दृश्यते मारितो मर्त्यस् ,-त्वदुत्शीर्षकसन्निधौ(?) ॥१२३।। तदङ्गिमांसमिश्रं ते, मुखं रक्ताऽरुणीकृतम् । एतद् द्वयमभाग्येन, दृष्टं व्युष्टे स्फुटं मया ॥१२४॥ युग्मम् ॥ सैवं पतिवचः श्रुत्वा, भर्तारं प्रत्यभाषत । देव ! स्यां यद्यहं पूर्वं भूमिस्पृण्मांसभोजिनी ॥१२५।। साम्प्रतं किमहं कुर्वेऽपेयाऽभक्ष्यविवर्जनम् । प्राङ् मे त्वं किं न जानासि, शुष्ककन्दादिभोजनम् ॥१२६।। युग्मम् ।। केनाऽपि वैरिणा प्राच्य-मत्कर्मप्रेरितेन हि । स्फुरद्भोगवतो नेतस् !, तवाऽप्रीतिकृते कृतम् ॥१२७।। पदार्थसार्था ये सन्ति, प्रकृष्टाश्शिष्टसम्मताः । सदूषणाश्च ते सर्वे, रत्नदोषी विधिर्यतः ॥१२८॥
15
१. प्रभाते ।
D:lamarata.pm5\3rd proof