________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१६५ "हियए किण्हा, वयणेण चउमुही, दरिसिणेण तह रुद्दा । तेण नमक्करणिज्जा, देवत्तियनिम्मिया नारी" ॥१०४॥ [आर्या ] [ ] "देवाण दाणवाणं, मंतं मंतंति मंतनिउणा वि। इत्थीचरियम्मि पुणो, ते सवि मंता कहिं नट्ठा" ॥१०५॥ [आर्या ] [ ] "श्रूयते यन्न शास्त्रेऽपि, यन्न लोकेऽपि दृश्यते । तत् कल्पयन्ति लोलाक्ष्यो, जल्पन्ति स्थापयन्ति वा" ॥१०६॥[ ] निजवृत्तान्तमाज्ञाप्य, सुलसायास्तया ततः । ऋषिदत्ताकलङ्गाऽर्थं सा पष्टा योगिनी तदा ॥१०७।। तयोक्तं तत् तथा कुर्वे, स्यात् करग्रहणं तव । यथा हेमरथाधीश-सुतस्वर्णरथस्य हि ॥१०८।। इत्यक्त्वा तत्र सा प्राप्ता, कमाराऽऽवासवेश्मनि । दत्तेऽवस्वापिनी निद्रां, धन्ययोर्वरकन्ययोः ॥१०९।। कल्पद्रुः कल्पवल्लीभि-मञ्जरीभिस्सदा फलः । यथा हंसश्च हंसीभि-मुद्रिका रत्नमुद्रिता ॥११०।। तथा कुसुमशय्यायामृषिदत्तोपसङ्गतम् । योगिनी वीक्ष्य तद्पं, शिरस् सौवमधूनयत् ॥१११॥ युग्मम् । ततश्च ऋषिदत्ताऽऽस्यं, रक्तै रक्तीकृतं तया । मारयित्वा नरं कञ्चित् , तत्पाबें न्यस्तमामिषम् ॥११२।। एवं कृत्वाऽतिनिस्त्रिंशा, सुलसा कृत्यलालसा । ततः पलायिता तूर्णं, संप्राप्ता रुक्मिणीगृहे ॥११३॥ प्रगे मृतनरं दृष्ट्वा, जातः कलकलध्वनिः । जागरूकः कुमारोऽथ, तमाकर्ण्य व्यचिन्तयत् ॥११४॥ स्थाने किं विजने ह्यस्मिन् , केनाऽयं मारितः पुमान् । वक्त्रं रक्ताऽऽक्तमेतस्याः, कृतं चोत्शीर्षके पलम् ॥११५।। मत्प्रिया राक्षसी किं वा, शाकिनी याकिनी किमु । निशाचरी वनेचरी, व्यन्तरी प्रेतडामरी ॥११६।।
D:lamarata.pm5\3rd proof