________________
10
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१६३ "गर्भस्थं जायमानं, शयनतलगतं, मातुरुत्सङ्गसंस्थं, बालं वृद्धं युवानं, परिणितवयसं, निःस्वमाढ्यं खलाऽऽय॑म् । वृक्षाग्रे शैलश्रृङ्गे, नभसि पथि जले, कोटरे पञ्जरे वा, पाताले वा प्रविष्टं, हरति हि नितरां, दुर्निवारः कृतान्तः" ॥८१॥ स्रग्धरा [ ] नैषधेऽपि च "चर्म वर्म किल यस्य न भेद्यं, यस्य वज्रमयमस्थि च तौ चेत् । स्थायिनाविह न कर्ण-दधीची, तन्न धर्ममवधीरय धीर!" ॥८२॥[नैष.५/१२९]
आगमेऽपि च"डहरा वुड्डा वि पासहा(ह), गब्भत्था वि चवं( यं )ति माणवा । सेणे जह वट्टयं हरे, एवं आउक्खयम्मि तुट्टइ" ॥८३॥ [ सूत्र.श्रु.१/अ.२/२] "तित्थयरा गणहारी, सुरवइणो चक्कि-केसवा रामा ।
संहरिया हयविहिणा, का गणणा इयरलोयस्स" ॥८४॥ [ आर्या ] [ दे.श./९७] "विहडइ विह०[ वो, विहडइ बंधवो, विहडइ सरीरं पि । तणुपरिचओ वि अंते विहडेइ, न जीव ! तुह धम्मो ] ॥८५॥ [वि.म./१२९ ] स्वप्रियां प्रतिबोध्यैवं, कृत्वा तस्यौर्ध्वदेहिकम् । राजर्षिस्तूपमास्थाप्य, सयत्नः स प्रमोदभाक् ॥८६॥ ततश्च सप्रियः स्वीयं, नगरं प्रति सोऽचलत् । अखण्डितप्रयाणैस्स, संप्राप्तो रथमर्दनम् ॥८७।। सक्षणं सगुणः प्राज्ञो, राज्ञो राजगृहं गतः । सकलत्रो द्विधाऽवन्ध्यं, पितृपादौ ननाम स ॥८८॥ पितृभ्यां संस्तुतोऽत्यन्तं, मात्रा वर्धापितो मुदा । प्रापितो युवराजत्वं, भोगान् भुङ्क्ते सवल्लभः ॥८९॥ इतश्च – कौबेरीनगरीभ", राजा श्रीसुरसुन्दरः ।
कुमारोद्वाहवृत्तान्त-मश्रौषीज्जनवार्त्तया ॥९०। तस्याऽऽस्ते रुक्मिणी पुत्री, कुमारोद्वाहकाङ्क्षिणी । श्रुत्वा जातं तमुद्वाहमासीद् दुर्मन-उन्मनाः ॥९१॥
D:\amarata.pm5\3rd proof